मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५६, ऋक् ३

संहिता

तमु॑ स्तोतारः पू॒र्व्यं यथा॑ वि॒द ऋ॒तस्य॒ गर्भं॑ ज॒नुषा॑ पिपर्तन ।
आस्य॑ जा॒नन्तो॒ नाम॑ चिद्विवक्तन म॒हस्ते॑ विष्णो सुम॒तिं भ॑जामहे ॥

पदपाठः

तम् । ऊं॒ इति॑ । स्तो॒ता॒रः॒ । पू॒र्व्यम् । यथा॑ । वि॒द । ऋ॒तस्य॑ । गर्भ॑म् । ज॒नुषा॑ । पि॒प॒र्त॒न॒ ।
आ । अ॒स्य॒ । जा॒नन्तः॑ । नाम॑ । चि॒त् । वि॒व॒क्त॒न॒ । म॒हः । ते॒ । वि॒ष्णो॒ इति॑ । सु॒ऽम॒तिम् । भ॒जा॒म॒हे॒ ॥

सायणभाष्यम्

हेस्तोतारः तमुतमेव विष्णुं पूर्व्यं पूर्वार्हं अनादिसंसिद्धं ऋतस्यगर्भं यज्ञस्यगर्भभूतं यज्ञात्मना उत्पन्नमित्यर्थः यज्ञोवैविष्णुरितिश्रुतेः । यद्वा ऋतस्योदकस्य गर्भंगर्भकारणंउदकोत्पादकमित्यर्थः अपएवससर्जादावितिस्मृतेः । एवंभूतंविष्णुं यथा विद जानीथ तथाजनुषाजन्मनास्वतएवकेनचि- द्वरलाभादिना पिपर्तन स्तोत्रादिनाप्रीणयत यावदस्यमाहात्म्यंजानीथतावदित्यर्थः विदेर्लटि मध्य- मबहुवचनं विदऋतस्येत्यत्र संहितायामृत्यकइतिप्रकृतिभावः किंच अस्यमहानुभावस्यविष्णोर्ना- मचित् सर्वैर्नमनीयमभिधानं सार्वात्म्यप्रतिपादकंविष्णुरित्येतन्नामजानन्तः पुरुषार्थप्रदमित्यधिग- च्छन्तआसमन्तात् विवक्तन वदत संकीर्तयत यद्वा नाम यज्ञनामनमन विष्णोरेव सर्वेषां स्वर्गापव- र्गसाधनाय इष्ट्याद्यात्मना द्रव्यदेवतात्मनावा परिणाममाजानन्तोयूयंविवक्तन ब्रूत स्तुत वचेर्लो- टिछान्दसःशपःश्लुः बहुलंछन्दसीत्यभ्यासत्येत्वम् पूर्ववत्तनादेशः इदानीं साक्षात्कृत्याह—हेविष्णो सर्वात्मकदेव महोमहतस्तेतवसुमतिंसुष्ठुमतिं शोभात्मिकांबुद्धिं वा आभजामहे सेवामहेवयंयजमा- नाः ॥ ३ ॥ अग्नीषोमप्रणयनेतमस्यराजेत्येषाप्रयोक्तव्या अग्नीषोमौप्रणेष्यत्स्वितिखण्डेसूत्रितम्—तमस्य- राजावरुणस्तमश्विनेत्यर्धर्चआरमेदिति ।

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६