मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५६, ऋक् ४

संहिता

तम॑स्य॒ राजा॒ वरु॑ण॒स्तम॒श्विना॒ क्रतुं॑ सचन्त॒ मारु॑तस्य वे॒धसः॑ ।
दा॒धार॒ दक्ष॑मुत्त॒मम॑ह॒र्विदं॑ व्र॒जं च॒ विष्णु॒ः सखि॑वाँ अपोर्णु॒ते ॥

पदपाठः

तम् । अ॒स्य॒ । राजा॑ । वरु॑णः । तम् । अ॒श्विना॑ । क्रतु॑म् । स॒च॒न्त॒ । मारु॑तस्य । वे॒धसः॑ ।
दा॒धार॑ । दक्ष॑म् । उ॒त्ऽत॒मम् । अ॒हः॒ऽविद॑म् । व्र॒जम् । च॒ । विष्णुः॑ । सखि॑ऽवान् । अ॒प॒ऽऊ॒र्णु॒ते ॥

सायणभाष्यम्

मरुतस्य मरुतांऋत्विजांसंघातोमारुतं तद्वतः मत्वर्थोलुप्यते मरुतांदेवानांसंबन्धिनोवावेधसः मेधाविनोऽस्ययजमानस्य तंप्रसिद्धं क्रतुंयागंयज्ञात्मकंविष्णुं यज्ञोवैविष्णुरितिश्रुतेः । राजाराजमा- नोवरुणः सचन्तसेवते तमेवक्रतुंयागंअश्विनाअश्विनौसचेते अन्येपिदेवाः सचन्तेसेवन्ते किंच विष्णुः सवनत्रयात्मनाव्याप्तोविष्णुः सखिवान् यजमानादिसखिभिर्युक्तः सन् उत्तमंउत्कृष्टतमंअहर्विदंअह- र्वेत्तारं स्वर्गोत्पादकमित्यर्थः दक्षंबलंफलप्रदानसामर्थ्यरूपंदाधारधृतवान् किंच व्रजंचमेघंच व्रज- इतिमेघनाम व्रजःचरुरितितन्नामसुपाठात् तंवृष्ट्युदकायअपोर्णुते अपगतावरणंकरोति आहुतिद्वा- रायज्ञस्यैववृष्ट्युत्पादकत्वात् यद्वा मारुतस्य मरुत्संघातस्य देवगणस्य वेधसःविधातुः स्रष्टुर्विष्णोः क्रतुंकर्मपालनादिरूपं वरुणादयःसचन्ते तदधीनत्वात् पालनस्य सच सखिवान् इन्द्रमरुदादिसहायो- पेतःसन् उक्तलक्षणं दक्षंवृष्ट्युत्पादमादिसामर्थ्यरूपंबलंदाधार तथाव्रजंचापोर्णुते ॥ ४ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६