मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५७, ऋक् २

संहिता

यद्यु॒ञ्जाथे॒ वृष॑णमश्विना॒ रथं॑ घृ॒तेन॑ नो॒ मधु॑ना क्ष॒त्रमु॑क्षतम् ।
अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु जिन्वतं व॒यं धना॒ शूर॑साता भजेमहि ॥

पदपाठः

यत् । यु॒ञ्जाथे॒ इति॑ । वृष॑णम् । अ॒श्वि॒ना॒ । रथ॑म् । घृ॒तेन॑ । नः॒ । मधु॑ना । क्ष॒त्रम् । उ॒क्ष॒त॒म् ।
अ॒स्माक॑म् । ब्रह्म॑ । पृत॑नासु । जि॒न्व॒त॒म् । व॒यम् । धना॑ । शूर॑ऽसाता । भ॒जे॒म॒हि॒ ॥

सायणभाष्यम्

हेअश्विना अश्विनौ यत् यदावृषं वृष्ट्यादिवर्षकंरथं युंजाथेयोजयथः तदा नः क्षत्रं अस्मदीयंबलं- क्षत्रियजातंवा घृतेनोदकेन मधुनामधुरेण उक्षतं सिंचतं प्रबर्धयतमित्यर्थः यद्वा घृतेनक्षरणरूपेण मधुनामधुरेण अमृतेनउक्षतं युष्मद्रथस्थेनमधुनाअस्मदीयंबलंप्रवर्धयतमित्यर्थः अश्विनोरथस्यमधु- पूर्णत्वंमधुवाहनोरथइत्यादिषुप्रसिद्धम् किंच अस्माकंपृतनासुअस्मदीयासुपुत्रभृत्यादिमनुष्यरूपासु- प्रजासु ब्रह्मब्राह्मंतेजोजिन्वतंप्रीणयतं पृतनाइतिमनुष्यनाम विवस्वन्तः पृतनाइति तन्नामसूक्तत्वात् यद्वा पृतनासु परकीयासुप्रजासु ब्रह्मतासांपरिवृढमन्नमस्माकं जिन्वतं प्रीणयतं ब्रह्मेत्यन्ननाम ब्रह्म वर्चइतितन्नामसूक्तत्वात् वयंच शूरसाता शूरसातौ शूराणां प्रहारादिनायुक्तेसंग्रामे धनातदीयानिध- नानि बहुविधानिभजेमहि लभेमहि ॥ २ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७