मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५७, ऋक् ४

संहिता

आ न॒ ऊर्जं॑ वहतमश्विना यु॒वं मधु॑मत्या न॒ः कश॑या मिमिक्षतम् ।
प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥

पदपाठः

आ । नः॒ । ऊर्ज॑म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । मधु॑ऽमत्या । नः॒ । कश॑या । मि॒मि॒क्ष॒त॒म् ।
प्र । आयुः॑ । तारि॑ष्टम् । निः । रपां॑सि । मृ॒क्ष॒त॒म् । सेध॑तम् । द्वेषः॑ । भव॑तम् । स॒चा॒ऽभुवा॑ ॥

सायणभाष्यम्

हेअश्विना अश्विनौ युवंयुवांनोऽस्माकंऊर्जंबलप्राणनसमर्थं अन्नमावहतंप्रापयतं किंच नोऽस्मान् मधुमत्या माधुर्योपेतयाकशया वाचा इष्टप्रदानरूपयामिमिक्षतंसिंचतंप्रीणयतं कशेति वाङ्गाम कशाधिषणेतितन्नामसूक्तत्वात् यद्वा मधुमत्या माधुर्यवृष्टिमत्यामाधुर्योपेतयाकशया प्रतोदन्या नोऽस्मान्मिमिक्षतं मध्वित्युदकनाम मधु पुरीषमितितन्नामसूक्तत्वात् कशया अश्वताडनेनशीघ्रमा- गत्यवृष्टिरूपंफलंदास्यतइतिकशायामधुमत्त्वम् किंच आयुरायुष्यं प्रतारिष्टंप्रवर्धयतं प्रपूर्वस्तिरतिर्व- र्धनार्थः तथारपांसि मृक्षतं पापानिनिःशेषेणशोधयतं रपोरिप्रमितिपापनामनीभवतइतियास्कः । किंच द्वेषः द्वेष्यं अमित्रादिकंसेधतंनाशयतंइदंचभाव्यंसचाभुवासहभुवौ अस्मत्कार्येषुसहभवनवन्तौ- भवतं भवन्तौऎकमत्यंभजतइत्यर्थः वाक्यभेदादनिघातः ॥ ४ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७