मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५७, ऋक् ५

संहिता

यु॒वं ह॒ गर्भं॒ जग॑तीषु धत्थो यु॒वं विश्वे॑षु॒ भुव॑नेष्व॒न्तः ।
यु॒वम॒ग्निं च॑ वृषणाव॒पश्च॒ वन॒स्पतीँ॑रश्विना॒वैर॑येथाम् ॥

पदपाठः

यु॒वम् । ह॒ । गर्भ॑म् । जग॑तीषु । ध॒त्थः॒ । यु॒वम् । विश्वे॑षु । भुव॑नेषु । अ॒न्तरिति॑ ।
यु॒वम् । अ॒ग्निम् । च॒ । वृ॒ष॒णौ॒ । अ॒पः । च॒ । वन॒स्पती॑न् । अ॒श्वि॒नौ॒ । ऐर॑येथाम् ॥

सायणभाष्यम्

हेअश्विनाअश्विनौ युवंह युवांखलु जगतीष्वन्तः गमनशीलासुगोषुमध्येगर्भंधत्थः धारयथः नकेव- लंगोष्वेव अपितुयुवंयुवां विश्वेषुसर्वेषुभुवनेषुभूतजातेषु अन्तर्मध्येगर्भंधत्थः वृष्टिद्वारामिषरूपत्वेन- गर्भस्थरेतसः पोषकत्वात् किंच हेवृषणौकामानांवर्षितारौ युवंयुवांअग्निंचअपश्च वनस्पतींश्चऎरये- थांप्रवर्तयेथां आहुतिभोगायाग्निं स्वीकृत्यचवृष्ट्युदकानि उदकैरोषधिवनस्पत्यादिकंएतान्यस्मदर्थं- प्रैरयेथाम् ॥ ५ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७