मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५८, ऋक् २

संहिता

को वां॑ दाशत्सुम॒तये॑ चिद॒स्यै वसू॒ यद्धेथे॒ नम॑सा प॒दे गोः ।
जि॒गृ॒तम॒स्मे रे॒वती॒ः पुरं॑धीः काम॒प्रेणे॑व॒ मन॑सा॒ चर॑न्ता ॥

पदपाठः

कः । वा॒म् । दा॒श॒त् । सु॒ऽम॒तये॑ । चि॒त् । अ॒स्यै । वसू॒ इति॑ । यत् । धेथे॒ इति॑ । नम॑सा । प॒दे । गोः ।
जि॒गृ॒तम् । अ॒स्मे इति॑ । रे॒वतीः॑ । पुर॑म्ऽधीः । का॒म॒प्रेण॑ऽइव । मन॑सा । चर॑न्ता ॥

सायणभाष्यम्

हेवसू वासयितारावश्विनौ वां युवयोः संबन्धिन्यैअस्यैवक्ष्यमाणरूपायै सुमतयेचित् शोभनबुद्भ्यै चित् पूजायामप्यर्थेवा स्वल्पेनैवहविषामहत्फलप्रदानरूपायै ईदृश्याअपिबुद्धेः प्रीणनायकोदाशत् कोदद्यात् दातुंशक्रुयात् युवयोः प्रभावस्यातिमहत्त्वादितिभावः दाशतेर्लेट्यडागमः कथंमतेः सौष्ठ- वमितितदुच्यते यद्यस्मात्कारणात् गोःपदे भूम्याः सर्वैर्गन्तव्यायाःस्तुत्यायावा वेदिरूपायाःस्थाने एतावतीवैपृथिवीयावतीवेदिरितिश्रुतेः । गौरितिभूतिनाम तथाचनिरुक्तं—गौरितिपृथिव्यानाम- धेयंयद्दूरंगताभवतियच्चास्यांभूतानिगच्छन्तिगातेर्वौकारोनामकरणइति । तादृशेस्थाने अस्माभिः प्रार्थितौसन्तौ नमसा हविर्लक्षणेनयवमात्रप्रकारेणअन्नेन धेथे धारयथः बहुप्रदानविषयांबुद्धिं दधा- तेर्लटिबहुलंछन्दसीतिविकरणस्यलुक् धातोर्ह्रस्वत्वं आतोङितइति इयादेशः यस्मादेवंतस्मात् अस्मे अस्मभ्यं रेवतीः क्षीरादिधनवतीः पुरन्धीः शरीरधारकाः शरीराभिवृद्धिहेतूर्गाः जिगृतंशब्दयतं द- दतमित्यर्थः गॄशब्दे छान्दसःशपःश्लुः अभ्यासस्येत्वंह्रस्वत्वंच पुनस्तावेवविशेष्येते कामप्रेणेव इव- शब्दएवकारार्थः कामपूरकेणैव मनसासहचरन्ता चरन्तौयजमानस्यकामाः पूरणीयाइतिकृतसंक- ल्पावित्यर्थः प्रापूरणे कामंप्रीणातोतिकामप्रः आतोनुपसर्गेकः ॥ २ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः