मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५८, ऋक् ३

संहिता

यु॒क्तो ह॒ यद्वां॑ तौ॒ग्र्याय॑ पे॒रुर्वि मध्ये॒ अर्ण॑सो॒ धायि॑ प॒ज्रः ।
उप॑ वा॒मवः॑ शर॒णं ग॑मेयं॒ शूरो॒ नाज्म॑ प॒तय॑द्भि॒रेवै॑ः ॥

पदपाठः

यु॒क्तः । ह॒ । यत् । वा॒म् । तौ॒ग्र्याय॑ । पे॒रुः । वि । मध्ये॑ । अर्ण॑सः । धायि॑ । प॒ज्रः ।
उप॑ । वा॒म् । अवः॑ । श॒र॒णम् । ग॒मे॒य॒म् । शूरः॑ । न । अज्म॑ । प॒तय॑त्ऽभिः । एवैः॑ ॥

सायणभाष्यम्

अत्रेतिहासमाहुः—तौग्र्यनामकंराजानं युद्धेशत्रवःपराभाव्यपाशैर्दृढंबद्ध्वासमुद्रमध्येप्रचिक्षिपुः सचोत्तरीतुमशक्तःसन् अश्विनौतुष्टाव तौचतुष्टौशीघ्रमेवरथमश्वैर्योजयित्वासमुद्रमागत्य तमुत्तार्य- अपालयतामिति अयमर्थः—अजोहवीदश्विनातौग्र्यइत्यादिमन्त्रान्तरेप्रसिद्धः । सोऽत्रोच्यते—हेअ- श्विनौ वां युवयोःसंबन्धी पेरुःपारणकुशलोरथः युक्तोह अश्वैर्युक्तःखलु हशब्दोमन्त्रांतरप्रसिद्धिद्योत- नार्थः सचोदाहृतः कस्मैतौग्र्याय एतन्नाम्नेराज्ञे तद्बंधमोचनार्थं कुत्रेतितदुच्यतेअर्णसः अंभसोमध्येस- मुद्रस्यमध्ये सचपज्रः पाजसाबलेनतीर्णः सन् विधायि धारितः स्थापितः यस्मादेवंतस्माद्वां युवयोः अवः रक्षणं शरणंउपगमेयं संप्राप्नुयां ऎहिकदुःखाद्विमुक्तोयुष्मत्स्थानंसंभजेयं गतौदृष्टान्तः-पतयद्भ- रेवैरश्वैः शूरोन शूरइव सयथाअज्मजित्वानिर्भयंस्वगृहंप्राप्नोतितद्वत् ॥ ३ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः