मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५८, ऋक् ५

संहिता

न मा॑ गरन्न॒द्यो॑ मा॒तृत॑मा दा॒सा यदीं॒ सुस॑मुब्धम॒वाधु॑ः ।
शिरो॒ यद॑स्य त्रैत॒नो वि॒तक्ष॑त्स्व॒यं दा॒स उरो॒ अंसा॒वपि॑ ग्ध ॥

पदपाठः

न । मा॒ । ग॒र॒न् । न॒द्यः॑ । मा॒तृऽत॑माः । दा॒साः । यत् । ई॒म् । सुऽस॑मुब्धम् । अ॒व॒ऽअधुः॑ ।
शिरः॑ । यत् । अ॒स्य॒ । त्रै॒त॒नः । वि॒ऽतक्ष॑त् । स्व॒यम् । दा॒सः । उरः॑ । अंसौ॑ । अपि॑ । ग्धेति॑ग्ध ॥

सायणभाष्यम्

नद्योनद शीलाः मातृतमाः मातृवज्जगतांहितकारिण्यः आपः मामांदीर्घतमसं नगरन् नगिरेयुः निमग्नंमाकुर्युः गॄनिगरणे लेटिव्यत्ययेनशप् गिरणप्राप्तिंदर्शयति यद्यस्माद्दासाअस्मदुपक्षपयितारो- मदीयगर्भदासाः ईंएनंदीर्घतमसंमांसुसमुब्धं सुष्ठुसंकुचितसर्वांगं स्वतीपूजायामिति प्रादिसमासेअ- व्ययपूर्वपदप्रकृतिस्वरत्वम् अवाधुः अवाङ्मुखमपातयन् किंच अस्यममशिरः सत्रैतनः एतन्नामको- दासः अत्यंतनिर्घृणःसन् यद्यस्माद्वितक्षत् विविधंतष्टवान् तस्मात्सदासः स्वयंस्वकीयमेवशिरः तक्ष- तु नकेवलंशिरएव अपितुमदीयमुरः वक्षः स्थलंअंसौचग्ध हतवान् विदारितवानित्यर्थः हंतेर्लुङिछा- न्दसमेतद्रूपम् ततःस्वकीयमुरः अंसावपिस्वशस्त्रेणैवतथाकृतवान् तद्युवयोर्माहात्म्यमितिभावः ॥ ५ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः