मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५८, ऋक् ६

संहिता

दी॒र्घत॑मा मामते॒यो जु॑जु॒र्वान्द॑श॒मे यु॒गे ।
अ॒पामर्थं॑ य॒तीनां॑ ब्र॒ह्मा भ॑वति॒ सार॑थिः ॥

पदपाठः

दी॒र्घऽत॑माः । मा॒म॒ते॒यः । जु॒जु॒र्वान् । द॒श॒मे । यु॒गे ।
अ॒पाम् । अर्थ॑म् । य॒तीना॑म् । ब्र॒ह्मा । भ॒व॒ति॒ । सार॑थिः ॥

सायणभाष्यम्

दीर्घतमाः एतन्नामामहर्षिः सचमामतेयः ममतायाःपुत्रः दशमेयुगेदशयुगपर्यन्तं महानुभावयोर श्विनोःप्रभावत्पूर्वोक्तादृउःखाद्विमुक्तः अत्यंतसुखी स्वपुत्रभायादिभिःसहितोजीवितवान् दशमेयुगे- तीतेसति जुजुर्वान् जीर्णोवलीपलितगात्रोबभूव एवंभूतःसन् अर्थं पुरुषैरर्थ्यमानंकर्मफलंस्वर्गादिकं- यतीनांप्राप्नुवन्तीनां अपांअप्कार्यणांप्रजानां यद्वा अपांअपसांकर्मणांअर्थंप्रयोजनंयतीनां तासांप्रजा- ना ब्रह्माब्रह्मसदृशः परिवृढोभवति किंच सारथिः तद्वन्निर्वाहकोभवति देवोभवतीत्यर्थः एवमस्य- वृत्तांतंमन्त्रोनोवदतिस्वयंवास्वात्मानं पारोक्ष्येणाशिनोर्महानुभावत्वंप्रकटयितुंब्रवीति ॥ ६ ॥

प्रद्यावेतिपंचर्चंतृतीयंसूक्तं दैर्घतमसंजागतंद्यावापृथिव्यं अनुक्रान्तंच—प्रद्यावापंचद्यावापृथिव्यं- तुजागतंत्विति अग्निष्टोमेपृष्ठ्यस्यषष्ठेहनिचद्यावापृथिव्यनिविद्धानमेतत्सूक्तम् तथाचसूत्रं—प्रद्यावे- तिदैर्घतमसमिति आद्याद्यावापृथिव्येपशौहविषोयाज्या तथाचसूत्रितम्—प्रद्यावायज्ञैः पृथिवीऋता- वृधामृळानोरुद्रोतनोमयस्कृधीतिद्वेइति ।

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः