मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५९, ऋक् १

संहिता

प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी ऋ॑ता॒वृधा॑ म॒ही स्तु॑षे वि॒दथे॑षु॒ प्रचे॑तसा ।
दे॒वेभि॒र्ये दे॒वपु॑त्रे सु॒दंस॑से॒त्था धि॒या वार्या॑णि प्र॒भूष॑तः ॥

पदपाठः

प्र । द्यावा॑ । य॒ज्ञैः । पृ॒थि॒वी इति॑ । ऋ॒त॒ऽवृधा॑ । म॒ही इति॑ । स्तु॒षे॒ । वि॒दथे॑षु । प्रऽचे॑तसा ।
दे॒वेभिः॑ । ये इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । सु॒ऽदंस॑सा । इ॒त्था । धि॒या । वार्या॑णि । प्र॒ऽभूष॑तः ॥

सायणभाष्यम्

द्यावापृथिवीद्यावापृथिव्यौ दिवोद्यावेतेद्यावादेशआद्युदात्तः पृथिवीशब्दोङीषन्तोंतोदात्तः देव- ताद्वंद्वेचेत्युभयपदप्रकृतिस्वरत्वं समासमध्येपदान्तरपाठश्छान्दसः अहंयजमानः यज्ञैर्यागैः तत्प्रदानै- र्निमित्तभूतैः हविः प्रदानार्थंप्रस्तुषे प्रकर्षेणस्तौमि पुरुषव्यत्ययः कीदृश्यौते ऋतावृधा यज्ञस्यवर्धयि- त्र्यौमहीमहत्यौ विदथेषुयागेषुप्रचेतसाप्रकर्षेणास्मान् चेतयित्र्यौ अस्माभिश्चेतयितव्ये वा ईदृश्यौ- स्तुषे अनयोः कोऽतिशयइतिउच्यते—येद्यावापृथिव्यौ देवेभिः यजमानैः देवपुत्रे देवायजमानाः पुत्रस्थानीयाः शुश्रूषकाययोस्तेतादृश्यौ यद्वा देवेभिर्विशिष्टे सुदंससादंसइतिकर्मनाम शोभनकर्मो- पेते इत्था सत्यं इत्थेतिसत्यनाम सत्राइत्थेतितन्नामसुपाठात् सत्यधियाअस्मदनुग्रहबुद्भ्या वार्याणि- वरणीयानिधनानिअस्मभ्यंप्रभूषतः अलंकुरुतः दत्तइत्यर्थः यद्वा वार्याणि हवींषिधियाकर्मणानिमि- त्तेन कर्मसमाप्त्यर्थंभूषतः प्रकर्षेणस्वीकुरुतः ॥ १ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः