मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५९, ऋक् २

संहिता

उ॒त म॑न्ये पि॒तुर॒द्रुहो॒ मनो॑ मा॒तुर्महि॒ स्वत॑व॒स्तद्धवी॑मभिः ।
सु॒रेत॑सा पि॒तरा॒ भूम॑ चक्रतुरु॒रु प्र॒जाया॑ अ॒मृतं॒ वरी॑मभिः ॥

पदपाठः

उ॒त । म॒न्ये॒ । पि॒तुः । अ॒द्रुहः॑ । मनः॑ । मा॒तुः । महि॑ । स्वऽत॑वः । तत् । हवी॑मऽभिः ।
सु॒ऽरेत॑सा । पि॒तरा॑ । भूम॑ । च॒क्र॒तुः॒ । उ॒रु । प्र॒ऽजायाः॑ । अ॒मृत॑म् । वरी॑मऽभिः ॥

सायणभाष्यम्

उतअपिच पितुः पितृस्थानीयायाः धात्र्याअद्रुहः अद्रोग्धुः नहिकदचित्पिता स्वपुत्रादये द्रुह्यति तादृश्याः पृथिव्याः स्वतवः स्वायत्तंबलं स्वयमेवास्मदनुग्रहायत्वरमाणं अतएवमहि महत् तत्तादृशं अनुग्रहयुक्तमनश्चित्तं हवीमभिः हवमानैराह्वानैर्मन्ये जानामि प्रसादयामीत्यर्थः यद्वा तत्तादृशमुक्त- लक्षणंमनः हवीमभिः हवनैः महिमन्ये अतिमहत् प्रवृद्धं मन्ये तथा मातुः सर्वस्योत्पादयितुरन्तरिक्ष- स्यद्युलोकस्य मातान्तरिक्षंनिर्मीयन्तेऽस्मिन्भूतानीतिनिरुक्तम् । यद्वा पितुर्द्युलोकस्य मातुर्भूम्याः द्यौर्वः पितापृथिवीमातेतिश्रुतेः । तत्तादृशमुक्तलक्षणंमनोमन्ये द्यावापृथिव्योर्मनोऽस्मदाह्वानैःप्रीण- यामीत्यर्थः किंच पितरा माताचपिताचपितरौ द्यावापृथिव्यौ सुरेतसा शोभनसामर्थ्येनप्रजायाः यजमानादिरूपायाः वरीमभिः वरिष्ठैः रक्षणविशेषैः भूमबहुतरं उरुविस्तीर्णं अमृतं अमरणभूतं अंभिलषितंचक्रतुः कुरुतः ॥ २ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः