मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५९, ऋक् ४

संहिता

ते मा॒यिनो॑ ममिरे सु॒प्रचे॑तसो जा॒मी सयो॑नी मिथु॒ना समो॑कसा ।
नव्यं॑नव्यं॒ तन्तु॒मा त॑न्वते दि॒वि स॑मु॒द्रे अ॒न्तः क॒वयः॑ सुदी॒तयः॑ ॥

पदपाठः

ते । मा॒यिनः॑ । म॒मि॒रे॒ । सु॒ऽप्रचे॑तसः । जा॒मी इति॑ । सयो॑नी॒ इति॒ सऽयो॑नी । मि॒थु॒ना । सम्ऽओ॑कसा ।
नव्य॑म्ऽनव्यम् । तन्तु॑म् । आ । त॒न्व॒ते॒ । दि॒वि । स॒मु॒द्रे । अ॒न्तरिति॑ । क॒वयः॑ । सु॒ऽदी॒तयः॑ ॥

सायणभाष्यम्

तेअत्रप्रसिद्धेद्यावापृथिव्यौ मायिनः मायाः प्रज्ञाः स्वविषयप्रज्ञावन्तः प्रज्ञोपलक्षितकर्मवन्तोवा सुप्रचेतसः सुष्ठुप्रकर्षेणचेतितुंशक्ताः रश्मयः ममिरे मिमते प्रमाणेनपरिच्छिन्दन्ति कीदृश्यौते जामी परस्परंभगिनीएतत्कुतइतिचेत् उच्यते—सयोनी समानोत्पत्तिस्थाने मिथुनाप्राण्युत्पत्तयेमि थुनभू- तेपरस्परमवियुक्तेइत्यर्थः समोकसा समानस्थाने द्युपृथिव्योरेकस्मिन्नेवावकाशरूपेअवस्थानात् स- मीचीनस्थानेवा किंच कवयः मेधाविनः स्वव्यापारविषयज्ञानवन्तः सुदीतयः सुष्ठुद्योतनारश्मयो- दिविद्योतमानेसमुद्रेन्तरिक्षेतर्मध्ये समुद्रशब्दोंतरिक्षनामसुपाठात् तद्वचनः सचैवंयास्केननिरुक्तः— समुद्रः कस्मात्समुद्द्रवंत्यस्मादापः समभिद्रवंत्येनमापः संमोदन्तेस्मिन्भूतानिसमुदकोभवतिसमुनत्ती- तिवेति । नव्यंनव्यं तंतुंतननीयंविस्तारणीयंजात्येकवचनं रश्मीन् आतन्वते समन्ताद्विस्तारयन्ति ॥ ४ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः