मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६०, ऋक् १

संहिता

ते हि द्यावा॑पृथि॒वी वि॒श्वश॑म्भुव ऋ॒ताव॑री॒ रज॑सो धार॒यत्क॑वी ।
सु॒जन्म॑नी धि॒षणे॑ अ॒न्तरी॑यते दे॒वो दे॒वी धर्म॑णा॒ सूर्य॒ः शुचि॑ः ॥

पदपाठः

ते इति॑ । हि । द्यावा॑पृथि॒वी इति॑ । वि॒श्वऽश॑म्भुवा । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । रज॑सः । धा॒र॒यत्क॑वी॒ इति॑ धा॒र॒यत्ऽक॑वी ।
सु॒जन्म॑नी॒ इति॑ सु॒ऽजन्म॑नी । धि॒षणे॒ इति॑ । अ॒न्तः । ई॒य॒ते॒ । दे॒वः । दे॒वी इति॑ । धर्म॑णा । सूर्यः॑ । शुचिः॑ ॥

सायणभाष्यम्

तेहि तेखलुप्रसिद्धे द्यावापृथिवीअन्तः तयोरंतराले शुचिःशुद्धः विशस्यशोचयिता वा देवोदीप्य- मानः सूर्योधर्मणाप्रकाशोदकदानादिधारणेनयुक्तःसन् ईयते सर्वदागच्छति ईङ्गतौ दैवादिकः तादृ- शंकर्मयुवयोरनुग्रहादितिस्तुतिः कीदृश्यौते विश्वशंभुवा विश्वंसुखंभावयितृययोस्तेविश्वशंभुवा विश्व- स्यसुखयित्र्यावित्यर्थः ऋतावरीऋतवत्यौउदकवत्यौ ऋतशब्दाच्छन्दसीवनिपावितिवनिप् वनोर- चेतिङीब्रेफौ रजसः उदकस्य उदकोत्पत्तौ उदकंरजउच्यतेइतिनिरुक्तम् । धारयत्कवी अकृच्छ्रेणधार- कंकवित्वंययोस्तेतादृश्यौ उदकोत्पदनायाप्रयत्नवत्यौइत्यर्थः यद्वा धारयत्कविर्मनीषीआदित्योययो- स्तेतादृश्यौ वृष्ट्युदकधारणवित्सूर्योपेतेइत्यर्थः सुजन्मनीशोभनजन्मवत्यौ धिषणेधर्षणोपेते स्वव्या- पारेषुप्रगल्भेइत्यर्थः देवीद्योतमाने अत्रयद्यपिधिषणेइत्येतत् धिषणेरोदसीइतितन्नामसूक्तत्वात् द्या- वापृथिवीनाम तथापिद्यावापृथिवीइत्यस्यविद्यमानत्वाद्यौगिकंद्रष्टव्यम् ॥ १ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः