मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६०, ऋक् २

संहिता

उ॒रु॒व्यच॑सा म॒हिनी॑ अस॒श्चता॑ पि॒ता मा॒ता च॒ भुव॑नानि रक्षतः ।
सु॒धृष्ट॑मे वपु॒ष्ये॒३॒॑ न रोद॑सी पि॒ता यत्सी॑म॒भि रू॒पैरवा॑सयत् ॥

पदपाठः

उ॒रु॒ऽव्यच॑सा । म॒हिनी॒ इति॑ । अ॒स॒श्चता॑ । पि॒ता । मा॒ता । च॒ । भुव॑नानि । र॒क्ष॒तः॒ ।
सु॒धृष्ट॑मे॒ इति॑ सु॒ऽधृष्ट॑मे । व॒पु॒ष्येः॒३॒॑ इति॑ । न । रोद॑सी॒ इति॑ । पि॒ता । यत् । सी॒म् । अ॒भि । रू॒पैः । अवा॑सयत् ॥

सायणभाष्यम्

उरुव्यचसा प्रभूतवचनवत्यौ अतिविस्तीर्णे महिनी अतएवमहत्यौ असश्चताअसज्यमाने परस्पर- वियुक्तेइत्यर्थः पिता पालयित्रीद्यौः मातानिर्मात्रीपृथिवीचेत्युभे भुवनानिभूतजातानि रक्षतः पाल- यतः द्यौः पितः पृथिवीमातरित्यादिश्रुतेर्मातापितृरूपत्वं किंच सुधृष्टमे अतिश्येनधृष्टे छान्दसस्तका- रलोपः प्रगल्भेरोदसी द्यावापृथिव्यौ वपुष्येन वपुषोहितेइव प्राणिनां पितराविव शरीररक्षकेइत्यर्थः तदेवोपपादयति यद्यस्मात्सीं सर्वतः पिता पितृस्थानीया द्यौः रूपैः निरूपणसाधनैः प्रशस्तैः प्रकाशैः निरूप्यमाणैर्वृष्ट्यादिभिर्वा अभ्यवासयत् अभिवासयति अधितिष्ठति तस्मात्पितामाताचभुवनानि- रक्षतः ॥ २ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः