मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६०, ऋक् ५

संहिता

ते नो॑ गृणा॒ने म॑हिनी॒ महि॒ श्रवः॑ क्ष॒त्रं द्या॑वापृथिवी धासथो बृ॒हत् ।
येना॒भि कृ॒ष्टीस्त॒तना॑म वि॒श्वहा॑ प॒नाय्य॒मोजो॑ अ॒स्मे समि॑न्वतम् ॥

पदपाठः

ते । नः॒ । गृ॒णा॒ने इति॑ । म॒हि॒नी॒ इति॑ । महि॑ । श्रवः॑ । क्ष॒त्रम् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । धा॒स॒थः॒ । बृ॒हत् ।
येन॑ । अ॒भि । कृ॒ष्टीः । त॒तना॑म । वि॒श्वहा॑ । प॒नाय्य॑म् । ओजः॑ । अ॒स्मे इति॑ । सम् । इ॒न्व॒त॒म् ॥

सायणभाष्यम्

तेप्रसिद्धे हेद्यावापृवी द्यावापृथिव्यौ गृणानेअस्माभिः स्तूयमानेसत्यौकर्मणिकर्तृप्रत्ययः महिमह- त् अतिप्रभूतंश्रवः सर्वत्रप्रसिद्धमन्नंसर्वत्रश्रूयमाणां कीर्तिवानोऽस्मभ्यं धासथः धत्तं दधातेर्लेट्यडाग- मः सिब्बहुलमितिसिप् तथा बृहत् अतिप्रभूतंक्षत्रंबलंधासथः तदेवविशेष्यते येनबलेन विश्वहा सर्वे- ष्वप्यहःसु कृष्टीः पुत्रादिरूपाः प्रजाः अभिततनाम अभितोविस्तारयाम तनोतेर्लोटि छान्दसोविकर- णस्यश्लुः आडुत्तमस्येत्याडागमः तस्य छन्दस्युभयथेति आर्धधातुकत्वात् अभ्यस्ताद्युदात्तत्वाभावे- धातुस्वरः कृष्टयइतिमनुष्यनाम कृष्टयः चर्षणयइतितन्नामसुपाठात् किंच पनाय्यं स्तुत्यं ओजः शरी- रबलं अस्मेअस्मासुसम्यगिन्वतं प्रवर्धयतमित्यर्थः इन्वतिर्व्याप्तिवचनः इन्वतिननक्षेइतितन्नामसुपा- ठात् ॥ ५ ॥

किमुश्रेष्ठइतिचतुर्दशर्चंपंचमंसूक्तं दैर्घतमसमार्भवं अंत्यात्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः अनुक्रांतंच—किमुश्रेष्ठः षळूनार्भवंत्रिष्टुबंतमिति । व्यूह्ळेदशरात्रेषष्ठेहनिवैश्वदेवशस्त्रेआर्भवंनिविद्धा- नंद्विप्रतीकं तत्रकिमुश्रेष्ठइत्येतदंत्यवर्ज्यंप्रतीकंव्यूह्ळश्चेतिखण्डेसूत्रितम्—किमुश्रेष्ठउपनोवाजाइतित्र- योदशार्भवंचतस्रश्चेति ।

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः