मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६१, ऋक् ६

संहिता

इन्द्रो॒ हरी॑ युयु॒जे अ॒श्विना॒ रथं॒ बृह॒स्पति॑र्वि॒श्वरू॑पा॒मुपा॑जत ।
ऋ॒भुर्विभ्वा॒ वाजो॑ दे॒वाँ अ॑गच्छत॒ स्वप॑सो य॒ज्ञियं॑ भा॒गमै॑तन ॥

पदपाठः

इन्द्रः॑ । हरी॑ । यु॒यु॒जे । अ॒श्विना॑ । रथ॑म् । बृह॒स्पतिः॑ । वि॒श्वऽरू॑पाम् । उप॑ । आ॒ज॒त॒ ।
ऋ॒भुः । विऽभ्वा॑ । वाजः॑ । दे॒वान् । अ॒ग॒च्छ॒त॒ । सु॒ऽअप॑सः । य॒ज्ञिय॑म् । भा॒गम् । ऐ॒त॒न॒ ॥

सायणभाष्यम्

पूर्वंसृष्टानांक्रमेणविनियोगमाह—इन्द्रोहरीयुयुजे एतन्नामानावश्वौरथेयोजितवान् तथा अश्वि- नाअश्विनौ रथंयोजितवन्तौ तथाबृहस्पतिः बृहतोमन्त्रस्य पालयिता एतन्नामकोदेवो विश्वरूपां नानारूपोपेतांगांउपाजत उपागमत् स्वीकृतवानित्यर्थः यद्यप्यत्रगौरितिविशेषोनश्रुतः तथापिपूर्वं धेनुःकर्त्वेत्युक्तत्वात् परस्ताच्चयेधेनुंविश्वजुवं विश्वरूपामितिवक्ष्यमाणत्वाच्च विश्वरूपागौरित्येवा- ध्यवसीयते अतएवविश्वरूपामितिचतस्याश्वपंक्तिमितिकेचनव्याचक्षते ततदसत् युष्मत्संपादितानि रथादीनींद्रादयः स्वभागत्वेनाकल्पयन् तस्मादृभुर्विभ्वावाजश्च यूयं देवानिंद्रादीनगच्छत गत्वाच हेस्वपसः शोभनाश्वरथयोकर्मवन्तोयूयं यज्ञियं यज्ञार्हं यज्ञसंबंधिनंभागं सोमरूपं देवत्वंप्राप्तैः सेव- नीयं ऎतन प्राप्नुत कर्मसामर्थ्येनहविर्भुजोभवतेत्यर्थः इत्येवमृषिराह ॥ ६ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः