मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् १

संहिता

मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुत॒ः परि॑ ख्यन् ।
यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्ते॑ः प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥

पदपाठः

मा । नः॒ । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । आ॒युः । इन्द्रः॑ । ऋ॒भु॒क्षाः । म॒रुतः॑ । परि॑ । ख्य॒न् ।
यत् । वा॒जिनः॑ । दे॒वऽजा॑तस्य । सप्तेः॑ । प्र॒ऽव॒क्ष्यामः॑ । वि॒दथे॑ । वी॒र्या॑णि ॥

सायणभाष्यम्

नोऽस्मानश्वंस्तोतुंप्रवृत्तान्मित्रादयोदेवाः मापरिख्यन् परिख्यानं माकुर्वन्तु परिख्यानं नामनिंदा महानुभावंदेवजातमश्वं तुच्छानराःस्तुवंतीतिमाकुर्वन्तु ख्यातेर्माङिलुङिअस्यतिवक्तीत्यादिनाच्लेरङ् अहरभिमानीदेवोमित्रः रात्र्यभिमानीवरुणः अर्यमा तयोरन्तरालाभिमानी आदित्यःआयुः सततग- न्तावायुः वकारलोपोवा इन्द्रःप्रसिद्धः ऋभुक्षाः देवानांनिवासभूतः प्रजापतिः यद्वैतन्महन्नामेंद्रविशे- षणं ऋभुक्षाउक्षाइतितन्नामसुपाठात् मरुतः इन्द्रभ्रातरः निन्दायाः प्रसक्तिंदर्शयति यद्यस्माद्वाजिनो- वेजनवतोबह्वन्नवतोवा देवजातस्य बहुदेवतास्वरूपेणोत्पन्नस्य उषादीनामस्यशिरआद्यवयवत्वा- दितिभावः उषावाअश्वस्यमेध्यस्यशिरइत्यादिश्रुतेः । यद्वा देवेभ्योजातस्यगंधर्वकुलेउत्पन्नत्वात् । सप्तेः सर्पणशीलस्य अश्वनामैतत् एवंविधस्याश्वस्य महानुभावस्यवीर्याणिवीरकर्माणिसामर्थ्यानि- विदधे वेदनसाधनेयज्ञेप्रवक्ष्यामः प्रकर्षेणब्रूमः अतोमापरिख्यन् प्रत्युतानुगृह्णन्त्वित्यर्थः ॥ १ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः