मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् ४

संहिता

यद्ध॑वि॒ष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षा॒ः पर्यश्वं॒ नय॑न्ति ।
अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्य॑ः प्रतिवे॒दय॑न्न॒जः ॥

पदपाठः

यत् । ह॒वि॒ष्य॑म् । ऋ॒तु॒ऽशः । दे॒व॒ऽयान॑म् । त्रिः । मानु॑षाः । परि॑ । अश्व॑म् । नय॑न्ति ।
अत्र॑ । पू॒ष्णः । प्र॒थ॒मः । भा॒गः । ए॒ति॒ । य॒ज्ञम् । दे॒वेभ्यः॑ । प्र॒ति॒ऽवे॒दय॑न् । अ॒जः ॥

सायणभाष्यम्

हविषांहविर्योग्यंदेवयानंदेवानांप्रापणीयमश्वंयत् यदामानुषाः ऋत्विजः ऋतुशः ऋतावृतौ का- लेकाले त्रिःपरिणयन्ति पर्यग्निकुर्वन्तीत्यर्थः अत्रास्मिन्समये ऋचितुनुघेतिदीर्घः पूष्णः पोषकस्याग्ने- र्भागोऽजःप्रथमः एतिपुरोगामीसन् गच्छति किंकुर्वन् यज्ञंदेवेभ्यःप्रतिवेदयन् प्रख्यापयन् ॥ ४ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः