मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् ५

संहिता

होता॑ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ उ॒त शंस्ता॒ सुवि॑प्रः ।
तेन॑ य॒ज्ञेन॒ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वम् ॥

पदपाठः

होता॑ । अ॒ध्व॒र्युः । आऽव॑याः । अ॒ग्नि॒म्ऽइ॒न्धः । ग्रा॒व॒ऽग्रा॒भः । उ॒त । शंस्ता॑ । सुऽवि॑प्रः ।
तेन॑ । य॒ज्ञेन॑ । सुऽअ॑रङ्कृतेन । सुऽइ॑ष्टेन । व॒क्षणाः॑ । आ । पृ॒ण॒ध्व॒म् ॥

सायणभाष्यम्

होता देवानामाह्वाता एतन्नामकऋत्विक् अध्वर्युरध्वरयुः अध्वरस्यनेता सोऽपिआवयाः आभिमुख्येनहविषांगमयिताअध्वर्योर्विशेषणमेतत् आङ्पूर्वाद्वेतेरसुन् पूर्वपदप्रकृतिस्वरत्वंच यद्वा आभिमुख्येनावयष्टाप्रतिप्रस्थातोच्यते अवेयजइतिण्विन् अवाप्योरुपसर्गयोरित्यल्लोपः अग्निमिंधो- ग्नीत् भाष्ट्राग्न्योरिंधेइतिमुम् ग्रावग्राभः ग्राव्णःस्तुत्यागृह्णातीति ग्रावस्तुत् कर्मण्यण् उत अपिच शंस्ताप्रशास्ता सुविप्रइतिमेधाविनाम शोभनमेधोपेतोब्रह्मोच्यते ब्रह्मात्वोवदतिजातविद्यामित्यत्र ब्रह्मैकोजातेजातेविद्यांवदतिब्रह्मासर्वविद्यः सर्वंवेदितुमर्हतीत्युक्तत्वात् ब्रह्मैवसुविप्रशब्देनाभिधेयः सचानुक्तऋत्विगुपलक्षकः एतेसर्वेयूयंतेनप्रसिद्धेनस्वरंकृतेनसुष्ठुअरणीयंकृतेनस्वलंकृतेनवा उच्चारसौ- ष्ठवादिनासुष्ठुसंपादितेनस्विष्टेनसुष्ठुइष्टेनयज्ञेनवक्षणाः अभितोघृतकुल्यादीन्प्रवहणस्वभावाः प्रसिद्धा- नदीर्वा आपृणध्वं सर्वतःपूरयत यज्ञंसम्यक् निवर्त्यफलंसाधयतेत्यर्थः ॥ ५ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः