मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् ७

संहिता

उप॒ प्रागा॑त्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः ।
अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वानां॑ पु॒ष्टे च॑कृमा सु॒बन्धु॑म् ॥

पदपाठः

उप॑ । प्र । अ॒गा॒त् । सु॒ऽमत् । मे॒ । अ॒धा॒यि॒ । मन्म॑ । दे॒वाना॑म् । आशाः॑ । उप॑ । वी॒तऽपृ॑ष्ठः ।
अनु॑ । ए॒न॒म् । विप्राः॑ । ऋष॑यः । म॒द॒न्ति॒ । दे॒वाना॑म् । पु॒ष्टे । च॒कृ॒म॒ । सु॒ऽबन्धु॑म् ॥

सायणभाष्यम्

मन्ममननीयंफलंसुमत् उपप्रागात् उपप्रैतु सुमत् स्वयमित्यर्थइतियास्कः । यद्वा स्वयमेव माद- यितृतमे मयि अधायि धीयते फलभूतोऽश्वआगतः सचमयाधृतइत्यर्थः किमर्थंबीतपृष्ठः साधुपोषणे- नप्राप्तपार्श्वभागः कांतपृष्ठोवा अत्यंतंदृप्तइत्यर्थः तादृशोयं देवानामाशाः पूरयितुंउपगच्छतु यागार्थ- मागतमेनं सुबंधुं शोभनबंधनमश्वं देवानामाशास्यमानानां पुष्टे पोषणायचकृम कुर्मः तंच विप्रामेधा- विनऋत्विजः ऋषयोतींद्रियद्रष्टारः अन्येवाविप्राऋषयश्चानुमदंति अनुमोदन्तां सम्यक् कृतमिति परितुष्यन्तु ॥ ७ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः