मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् ८

संहिता

यद्वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य ।
यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॒३॒॑ तृणं॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥

पदपाठः

यत् । वा॒जिनः॑ । दाम॑ । स॒म्ऽदान॑म् । अर्व॑तः । या । शी॒र्ष॒ण्या॑ । र॒श॒ना । रज्जुः॑ । अ॒स्य॒ ।
यत् । वा॒ । घ॒ । अ॒स्य॒ । प्रऽभृ॑तम् । आ॒स्ये॑ । तृण॑म् । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥

सायणभाष्यम्

वाजिनोवेगवतः अर्वतः अरणवतः ग्मनवतोश्वस्ययद्दामग्रीवाबद्धारज्जुः यच्चसंदानं सम्यगवच्छे- दकं बंधकंपादबंधनंदामास्ति याचस्य शीर्षण्याशिरसि बद्धारशनामेखलाइव खलीनरज्जुरस्ति शिरः शब्दाद्भवेछन्दसीतियत् येचतद्धितेइतिशीर्षन्भावः तित्स्वरितः यद्वा घास्याश्वस्यास्ये मुखे प्रभृतं प्रहृतं प्रक्षिप्तं तृणमस्ति तृणमस्ति घशब्दोहार्थे सचप्रसिद्भ्यर्थः सर्वा सर्वाणि ता तानि सर्वाण्यपि हेअश्व ते तव संबंधीनि देवेष्वस्तुसंतु देवेषुमध्येभवंतु देवत्वंप्राप्नुवंतुवा वचनव्यत्ययः अत्रोपयुक्ता- नांसर्वेषां देवत्वंकिल अश्वस्यतत्प्राप्तिर्नाशासनीया ॥ ८ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः