मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् ९

संहिता

यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ ।
यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥

पदपाठः

यत् । अश्व॑स्य । क्र॒विषः॑ । मक्षि॑का । आश॑ । यत् । वा॒ । स्वरौ॑ । स्वऽधि॑तौ । रि॒प्तम् । अस्ति॑ ।
यत् । हस्त॑योः । श॒मि॒तुः । यत् । न॒खेषु॑ । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥

सायणभाष्यम्

अश्वस्य तदवयवभूतस्य क्रविषः आममांसस्य यत् यदंगं मक्षिका आशाभक्षयत् अशभोजने यद्वा कर्मणिषष्ठी अश्वस्ययन्मांसं भक्षयति वा अथवा स्वरौ पश्वंजनकाले यत् रिप्तंलिप्तमस्ति स्वरुणापशु- मनक्तीतिश्रुतेः । अथवा स्वधितौछेदनकाले अवदानकाले यद्रिप्तमस्ति शमितुर्हस्तयोर्लिप्तमस्ति वि- शसनकालेयच्चनखेषु लिप्तं तासर्वा तानिसर्वाणि हेअश्व तेतवसंबंधीनिदेवेष्वस्तु देवेषुसंतोषार्थायभ- वन्तु ॥ ९ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः