मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् १०

संहिता

यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ ग॒न्धो अस्ति॑ ।
सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वन्तू॒त मेधं॑ शृत॒पाकं॑ पचन्तु ॥

पदपाठः

यत् । ऊव॑ध्यम् । उ॒दर॑स्य । अ॒प॒ऽवाति॑ । यः । आ॒मस्य॑ । क्र॒विषः॑ । ग॒न्धः । अस्ति॑ ।
सु॒ऽकृ॒ता । तत् । श॒मि॒तारः॑ । कृ॒ण्व॒न्तु॒ । उ॒त । मेध॑म् । शृ॒त॒ऽपाक॑म् । प॒च॒न्तु॒ ॥

सायणभाष्यम्

उदरस्य संबंधियदूवध्यं ईषज्जीर्णंतृणं पुरीषमपवातिअपगच्छति यश्चामस्यापक्वस्यक्रविषोमांस- स्यगंधोऽस्तिलेशोस्ति पाकस्यसमयेयत्किंचिदूबध्यं अपक्वस्यचलेशोऽस्तिआमगंधोस्ति तत्सर्वंशमि- तारोविशसनकर्तारः सुकृताकृण्वन्तु सुकृतंउक्तदोषरहितं कुर्वंतु उतअपिच मेधं मेध्यं यज्ञार्हं पश्व- वयवं श्रृतपाकं देवयोग्यपाकोपेतंयथाभवतितथापचंतु पितृमनुष्यादियोग्यमतिपक्वमीषत्पक्वंचमा- कुर्वन्त्वित्यर्थः ॥ १० ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः