मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् ११

संहिता

यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति ।
मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥

पदपाठः

यत् । ते॒ । गात्रा॑त् । अ॒ग्निना॑ । प॒च्यमा॑नात् । अ॒भि । शूल॑म् । निऽह॑तस्य । अ॒व॒ऽधाव॑ति ।
मा । तत् । भूम्या॑म् । आ । श्रि॒ष॒त् । मा । तृणे॑षु । दे॒वेभ्यः॑ । तत् । उ॒शत्ऽभ्यः॑ । रा॒तम् । अ॒स्तु॒ ॥

सायणभाष्यम्

हेअश्व तेतवाग्निनापच्यमानाद्गात्राद्यदूष्मरूपं रसोवायत्किंचिदवधावति तथानिहतस्य निःशेषे- णहतस्य तव यदंगंरसरूपंशूलमभिलक्ष्यावधावति निर्गच्छति तत्तदंगंभूम्यामाश्रिषत् आश्लिष्टंमाभूत् श्लिषेःपुषादित्वादङ् पाकसमयेतथा मा तृणेषु विशसनसमये दर्भेषु मापगच्छतु तर्हितत्पतितं कुत्रग- च्छत्वितिचेत् उच्यते—तत्तादृशं उशद्भ्यः कृत्स्नंहविः कामयमानेभ्योदेवेभ्योरातं दत्तमस्तु ॥ ११ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः