मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् १२

संहिता

ये वा॒जिनं॑ परि॒पश्य॑न्ति प॒क्वं य ई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ ।
ये चार्व॑तो मांसभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥

पदपाठः

ये । वा॒जिन॑म् । प॒रि॒ऽपश्य॑न्ति । प॒क्वम् । ये । ई॒म् । आ॒हुः । सु॒र॒भिः । निः । ह॒र॒ । इति॑ ।
ये । च॒ । अर्व॑तः । मां॒स॒ऽभि॒क्षाम् । उ॒प॒ऽआस॑ते । उ॒तो इति॑ । तेषा॑म् । अ॒भिऽगू॑र्तिः । नः॒ । इ॒न्व॒तु॒ ॥

सायणभाष्यम्

येपक्वंवाजिनमश्वंअश्वावयवंपरिपश्यंति परितःपावनबुद्भ्येक्षंते यईं येचैनंसुरभिः शोभनगंधःअतो- निर्हर किंचिदप्यस्मभ्यंदेहीप्याहुः यद्वा निःशेषेणदेवेभ्योहरेत्याहुः यतः सुरभिः अतोदेवयोग्यमिति किंच येचार्वतोमांसभिक्षामुपासते येनराः अस्यार्वतोऽश्वस्य हुतशिष्टमांसयाचनांउपासते कांक्षन्ते उ- तोअपिच तेषामुक्तविधानाम भिगूर्तिः अभितः उद्यमनंनोऽस्मानिन्वतु व्याप्नोतु यथास्माभिरश्वउपा- लब्धः एवंस्पृहयंति तथायज्ञोनिर्वाहयत्वित्यर्थः यद्वा मंत्रोदेवपरोव्याख्येयः येदेवाः वाजिनंपक्वंपरि- पश्यंतिकदाहोष्यतीतिविलंबंदृष्ट्वा येच सुरभिः ईमेनंनिर्हर निःशेषेणास्मभ्यंदेहीत्याहुः येचार्वतः अश्वस्यमांसभिक्षामुपासतेतेषामभिगूर्तिर्नः इन्वतु तेषांद्यमः सफलोभवत्वित्यर्थः ॥ १२ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः