मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् १४

संहिता

नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी॑श॒मर्व॑तः ।
यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥

पदपाठः

नि॒ऽक्रम॑णम् । नि॒ऽसद॑नम् । वि॒ऽवर्त॑नम् । यत् । च॒ । पड्बी॑शम् । अर्व॑तः ।
यत् । च॒ । प॒पौ । यत् । च॒ । घा॒सिम् । ज॒घास॑ । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥

सायणभाष्यम्

यत् निक्रमणं नितरांक्रमतेयत्रतन्निक्रमणंस्थानं नितरांसीदत्यत्रेतिनिषदनं विवर्तनं विविधवर्तनं इतस्ततोलुंठनंयत्रतत् सर्वत्राधिकरणेल्युट् यच्चार्वतोऽश्वस्य पड्वीशंपादबंधनं यद्वा बंधनंपट् तद्वान्प्र- देशः अत्रसर्वत्रदेवार्थस्याश्वस्यरोमादीनामपिनिरर्थकत्वाभावायतत्स्थानमपि स्वीक्रियते यद्वा क्रि- यापरावगंतव्या आलंभसमयेनिग्रहेणयानिक्रमणादयश्चेष्टाःसंति ताइत्यर्थः यच्चपपौ यदुदकमपिबत् तच्चघासिंअदनीयंतृणादिकंजघासअभक्षयत् हेअश्व तेतवतातानिसार्वाणिनिक्रमणादिनि देवेष्वस्तु- संतु देवेषुव्याप्नोतु तान्यपिनिरर्थकानिमाभूवन्नित्यर्थः ॥ १४ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः