मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् १५

संहिता

मा त्वा॒ग्निर्ध्व॑नयीद्धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रि॑ः ।
इ॒ष्टं वी॒तम॒भिगू॑र्तं॒ वष॑ट्कृतं॒ तं दे॒वास॒ः प्रति॑ गृभ्ण॒न्त्यश्व॑म् ॥

पदपाठः

मा । त्वा॒ । अ॒ग्निः । ध्व॒न॒यी॒त् । धू॒मऽग॑न्धिः । मा । उ॒खा । भ्राज॑न्ती । अ॒भि । वि॒क्त॒ । जघ्रिः॑ ।
इ॒ष्टम् । वी॒तम् । अ॒भिऽगू॑र्तम् । वष॑ट्ऽकृतम् । तम् । दे॒वासः॑ । प्रति॑ । गृ॒भ्ण॒न्ति॒ । अश्व॑म् ॥

सायणभाष्यम्

हेअश्वत्वात्वां धूमगंधिः धूमेनव्याप्तोऽग्निः माध्वनयीत् माध्वनयतु धूमंदृष्ट्वाशब्दंमाकुर्वित्यर्थः अश्वस्यशब्देनप्रायश्चित्तविधानात् यद्वा हेपच्यमानाश्वावयव त्वात्वांधूमगंधिरग्निर्माध्वनयीत् ध्व- नौसति भांडभंगः स्यात् नोनयतीत्यादिनाचङ्प्रतिषेधः ह्न्यंतक्षणेतिवृद्भ्यभावः किंचभ्रा जंतीअत्यं- ताग्निसंयोगेनदीप्ताउखास्थाली मा अभिविक्त अभितोमाचीचलत् तापातिशयेनमानीनशदित्यर्थः ओविजीभयचलनयोः छांदसोविकरणस्यलुक् लुङिवाझलोझलीतिसलोपः स्थालीविशेष्यते जघ्रिः जिघ्रतीतापेन घ्रागंधोपादाने आदृगमहनइतिकिन्प्रत्ययः तंतादृशमश्वं इष्टंहोतुमिषितं वीतंहोमा- यानीतं अभिगूर्तंआभिमुख्येनप्रदानायोद्यतं यद्वा इष्टंप्रयाजैराप्रीतंवीतं पर्यग्निक्रुतंअभिगूर्तं येयजा- महेइत्यागूरित्योक्तम् वषट्कृतं वषट्कारेणदेवसंस्कृतं एवंभूतं तंदेवासोदेवाः प्रतिगृभ्णंति प्रति- गृह्णन्ति ॥ १५ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः