मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् १६

संहिता

यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै ।
सं॒दान॒मर्व॑न्तं॒ पड्बी॑शं प्रि॒या दे॒वेष्वा या॑मयन्ति ॥

पदपाठः

यत् । अश्वा॑य । वासः॑ । उ॒प॒ऽस्तृ॒णन्ति॑ । अ॒धी॒वा॒सम् । या । हिर॑ण्यानि । अ॒स्मै॒ ।
स॒म्ऽदान॑म् । अर्व॑न्तम् । पड्बी॑शम् । प्रि॒या । दे॒वेषु॑ । आ । य॒म॒य॒न्ति॒ ॥

सायणभाष्यम्

अश्वायसंज्ञप्यमानाय अधीवासंउपर्याच्छादनयोग्यं यत् वासउपस्तृणन्ति सर्वतआच्छादयन्ति स्तृञ् आच्छादने क्रैयादिकः तथास्मैअश्वाय या यानिहिरण्यानि सौवर्णराजतकांस्यानिपात्राणिक- ल्पयन्ति तथाअर्वतं षष्ठ्यर्थेद्वितीया अर्वतोश्वस्यसंदानं शिरोबंधनं पड्वीशंपादेषु प्रविष्टंपादबंधनं एतानिप्रिया देवानां प्रियतराणिचात्वालेबद्ध्वा स्थापितानि देवेष्वायामयन्ति प्रापयन्ति ॥ १६ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०