मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् १७

संहिता

यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या॑ वा॒ कश॑या वा तु॒तोद॑ ।
स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ॥

पदपाठः

यत् । ते॒ । सा॒दे । मह॑सा । शूकृ॑तस्य । पार्ष्ण्या॑ । वा॒ । कश॑या । वा॒ । तु॒तोद॑ ।
स्रु॒चाऽइ॑व । ता । ह॒विषः॑ । अ॒ध्व॒रेषु॑ । सर्वा॑ । ता । ते॒ । ब्रह्म॑णा । सू॒द॒या॒मि॒ ॥

सायणभाष्यम्

महसाबलेनशूक्रुतस्य शब्दानुकरणमेतत् शूत्कारंकुर्वतः तेतवसादेसदने गमने निमित्तभूते गमने निमित्तभूते सति सदेर्भावेघञ् कर्षात्वतइत्यन्तोदात्तत्वं अर्थतोगमनं कुर्वन् शूत्कारंकुर्वतस्ते त्वां पा- ष्णर्यावाकशयावातुतोद व्यथयति यद्यस्मात्तस्मात्तेतव ता तानि सर्वा सर्वाणि अध्वरेषुयागेषु ब्रह्म- णामंत्रेणसूदयामि क्षरामि आहुतित्वेन कल्पयामीत्यर्थः तत्रदृष्टान्तः—अध्वरेषुयागेषु ब्रह्मणामंत्रेण- सूदयामि क्षरामि आहुतित्वेन कल्पयामीत्यर्थः तत्रदृष्टान्तः—अध्वरेषु यागेषु हविषः हविराज्यादिकं स्रुचेव स्रुचायथा सूदयंति तद्वत् ॥ १७ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०