मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् १८

संहिता

चतु॑स्त्रिंशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑ति॒ः समे॑ति ।
अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ॥

पदपाठः

चतुः॑ऽत्रिंशत् । वा॒जिनः॑ । दे॒वऽब॑न्धोः । वङ्क्रीः॑ । अश्व॑स्य । स्वऽधि॑तिः । सम् । ए॒ति॒ ।
अच्छि॑द्रा । गात्रा॑ । व॒युना॑ । कृ॒णो॒त॒ । परुः॑ऽपरुः । अ॒नु॒ऽघुष्य॑ । वि । श॒स्त॒ ॥

सायणभाष्यम्

वाजिनोऽश्वस्यदेवबंधोः देवानांप्रियस्य चतुस्त्रिंशद्वंक्रीः एतत्संख्यान्युभयपार्श्वास्थीनि स्वधितिः छेदनसाधनोऽसिः समेति सम्यग्गच्छति छेदनायइतरेषांअजादीनांषड्विंशतिरेव षड्विंशतिरस्यवं- क्रयइतिप्रैषात् हेविशसनकर्तः अस्याश्वस्यगात्राणिशरीरावयवान् अच्छिद्राणियथाभवन्तितथाव- युना वयुनानि प्रज्ञानानि वयुनमितिप्रज्ञानाम वयुनंअभिख्येतितन्नामसूक्तत्वात् कृणोत कुरुत तप्त- नप्तनथनाश्चेतितबादेशः हृदयजिह्वावक्षः प्रभृतीनिप्रज्ञायमध्येछिन्नानि माकुरुतेत्यर्थः तदर्थंपरुःपरुः प्रतिर्वप्रतिहृदयाद्यवयवं अनुघृष्यइदमवद्यमिति संशब्द्यैवविशस्त विशासनंकुरुत शसुहिंसायां छांद- सःशपोलुक् गात्रंगात्रमस्यानूनंकृणुतादितिप्रैषात् ॥ १८ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०