मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् १९

संहिता

एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॑ ऋ॒तुः ।
या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑नां॒ प्र जु॑होम्य॒ग्नौ ॥

पदपाठः

एकः॑ । त्वष्टुः॑ । अश्व॑स्य । वि॒ऽश॒स्ता । द्वा । य॒न्तारा॑ । भ॒व॒तः॒ । तथा॑ । ऋ॒तुः ।
या । ते॒ । गात्रा॑णाम् । ऋ॒तु॒ऽथा । कृ॒णोमि॑ । ताऽता॑ । पिण्डा॑नाम् । प्र । जु॒हो॒मि॒ । अ॒ग्नौ ॥

सायणभाष्यम्

त्वष्टुरस्यदीप्तस्याश्वस्य विशस्ताविशसनस्यकर्ता एकएव सकः ऋतुः एतदुपलक्षितः कालात्मा तस्यैवसर्वेषामपिपर्यवसितृत्वात् यद्वा ऋतुः निःशंकंविशसनायगंताशमिता तथा द्वा द्वौ यंतारा नियमयितारौअहोरात्रेदेवौ द्यावापृथिव्यौवा ऋत्विक्षुभवतः तथाक्रतुरित्यत्र ऋत्यकइतिप्रकृतिभा- वोह्रस्वत्वंच हेअश्व तेतवगात्राणांमध्येयायानि हृदयाद्यवयवजातानि ऋतुथाकालेकृणोमिछिनद्भि संपादयामि पिण्डानांमध्ये ताता तानितानि प्रज्ञाना नुरोधेनाग्नौजुहोमि प्रकर्षेणहुतंकरोमि ॥ १९ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०