मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् २२

संहिता

सु॒गव्यं॑ नो वा॒जी स्वश्व्यं॑ पुं॒सः पु॒त्राँ उ॒त वि॑श्वा॒पुषं॑ र॒यिम् ।
अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनतां ह॒विष्मा॑न् ॥

पदपाठः

सु॒ऽगव्य॑म् । नः॒ । वा॒जी । सु॒ऽअश्व्य॑म् । पुं॒सः । पु॒त्रान् । उ॒त । वि॒श्व॒ऽपुष॑म् । र॒यिम् ।
अ॒ना॒गाः॒ऽत्वम् । नः॒ । अदि॑तिः । कृ॒णो॒तु॒ । क्ष॒त्रम् । नः॒ । अश्वः॑ । व॒न॒ता॒म् । ह॒विष्मा॑न् ॥

सायणभाष्यम्

वाजीअश्वआलभ्यमानोऽस्माकं सुगव्यंशोभनेनगोसमूहेनयुक्तंविश्वापुषंरयिं विश्वस्य पोषकंधनं- कृणोतुकरोतु खलगोरथादितिसमूहार्थेयत् छान्दसमुत्तरपदाद्युदात्तत्वं यद्वा सामूहिकस्याणः प्रसंगेस- र्वत्रगोरजादिप्रत्ययप्रसंगेइतियत् तदंतस्याद्युदात्तंद्भ्यच् छन्दसीत्युत्तरपदाद्युदात्तत्वं तथास्वश्व्यं शॊ- भनाश्वसमूहयुक्तं तथा पुंसः पुत्रान् पुत्रशब्दः स्त्रीपुमपत्यसाधारणः अतः पुमपत्यानीत्यर्थः यद्वा पुं- सोबंध्वादीन् पुत्रान्पुरुरक्षकानात्मजान् स्त्र्यपत्यानिपुमपत्यानिचेत्यर्थः उत अपिच विश्वापुषंरयिं- विश्वपोषणसमर्थंधनं किंचनोऽस्मानदितिः अदीनोश्वः अनागास्त्वं कृणोतु सर्वतोनिष्पापत्वंकरोतु उक्तानांफलानांन्यूनातिरेकजनितपापक्षयाभावे असंभवादपापत्वंप्रार्थ्यते किंच हविष्मान् हविर्भूता- वयवोपेतोऽश्वोनोऽस्माकंक्षत्रंबलंक्षात्रंतेजोवनतां संभजतांकुरुताम् ॥ २२ ॥

यदक्रंदइतित्रयोदशर्चंसप्तमंसूक्तंदैर्घतमसंत्रैष्टुभं अश्वस्यस्तूयमानत्वात्तद्देवत्यं यदक्रंदः सप्तोनेत्य- नुक्रमणिका । आशमेधिकेमध्यमेहनिउपाकरणायावस्थितमश्वमाद्याभिरेकादशभिः स्तौति तथाच त्रीणिसुत्यानीतिखण्डेसूत्रितम्—तमवस्थितमुपाकरणाययदक्रंदइत्येकादशभिः स्तौत्यप्रणुवन्निति ।

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०