मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६३, ऋक् १

संहिता

यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् ।
श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ॥

पदपाठः

यत् । अक्र॑न्दः । प्र॒थ॒मम् । जाय॑मानः । उ॒त्ऽयन् । स॒मु॒द्रात् । उ॒त । वा॒ । पुरी॑षात् ।
श्ये॒नस्य॑ । प॒क्षा । ह॒रि॒णस्य॑ । बा॒हू इति॑ । उ॒प॒ऽस्तुत्य॑म् । महि॑ । जा॒तम् । ते॒ । अ॒र्व॒न् ॥

सायणभाष्यम्

हेअर्वन् अरणकुशलाश्व तेतवमहिमहत् जातंजन्मजननं उपस्तुत्यंउपेत्यसर्वैः स्तोतव्यं स्तौतेरेति- स्तुशास्वितिक्यप् ततस्तुक् कथंस्तुत्यत्वमित्युच्यते यद्यस्मात्समुद्रात् अंतरिक्षनामैतत् उदकसमुंदना- पादानाद्यक्षगंधर्वादिसंमोदनाधिकरणाद्वांतरिक्षात् प्रथमंपूर्वंजायमानः उत्पन्नः यद्वा समुद्रआदित्यः समुंदनाद्वृष्ट्यातस्माद्वाजायमानः सूरादश्वंवसवोनिरतष्टेतिवक्ष्यमाणत्वात् उतवा अथवापुरीषात् सर्वकामानांपूरकात् उदकात्प्रथममुद्यन् उद्गच्छन्सतादृशस्त्वं यद्यस्मात् अक्रंदः महाशब्दमकरोःयज- मानमनुग्रहीतुं किंच ते पक्षा पतनसाधनौ पक्षौ श्येनस्वपक्षाविव तौयथाशीघ्रपतनसाधनौ तादृशा- वित्यर्थः तवबाहू हरिणस्यबाहूइव तौयथावेगवंतौतादृशावित्यर्थः यस्मादेवंतस्मात्तेजन्मस्तुत्यमित्य- र्थः ॥ १ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११