मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६३, ऋक् २

संहिता

य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणं प्रथ॒मो अध्य॑तिष्ठत् ।
ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त्सूरा॒दश्वं॑ वसवो॒ निर॑तष्ट ॥

पदपाठः

य॒मेन॑ । द॒त्तम् । त्रि॒तः । ए॒न॒म् । अ॒यु॒न॒क् । इन्द्रः॑ । ए॒न॒म् । प्र॒थ॒मः । अधि॑ । अ॒ति॒ष्ठ॒त् ।
ग॒न्ध॒र्वः । अ॒स्य॒ । र॒श॒नाम् । अ॒गृ॒भ्णा॒त् । सूरा॑त् । अश्व॑म् । व॒स॒वः॒ । निः । अ॒त॒ष्ट॒ ॥

सायणभाष्यम्

यमेननियामकेनाग्निनादत्तमेनमश्वं त्रितःपृथिव्यादिषुत्रिषुस्थानेषुवर्तमानस्तीर्णतमोवावायुः अयुनक् रथेयोजितवान् किंचैनमश्वं इन्द्रः प्रथमः प्रतमः प्रकृष्टतमः प्रथमइतिमुख्यनाम अध्यतिष्ठत् अधिष्ठितवान् अस्यगंधर्वः सोमः सोमेनसमयाविपृक्तइतिवक्ष्यमाणत्वात् सचास्याश्वस्यरशनांनिय- मनरज्जुमगृभ्णात् अग्रहीत् ईदृशोश्वः कुतः समुत्पन्नइतिचेत् उच्यते—हेवसवः रश्मयोयूयंसूरादादि- त्यादश्वं एवंमहानुभावं निरतष्ट निःशेषेणसाधुसंपादितवंतः यद्वा वसुशव्देनोक्ताएवयमादयः परा- मृश्यन्ते हेवसवः स्वस्वव्यापारेणसर्वस्याच्छादयितारोयूयं सूरादादित्यादश्वमेनंनिरतष्ट अतक्षत निरित्येषसमित्येतस्यस्थाने तक्षतिः करोतिकर्मा सचक्रियासामान्यवचनः अत्रौचित्याद्धारणेवर्तते सम्यग्धाइतवंतइत्यर्थः तक्षेर्लङिछान्दसः शपोलुक् स्कोःसंयोगाद्योरितिकलोपः ॥ २ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११