मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६३, ऋक् ४

संहिता

त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे ।
उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न्यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्र॑म् ॥

पदपाठः

त्रीणि॑ । ते॒ । आ॒हुः॒ । दि॒वि । बन्ध॑नानि । त्रीणि॑ । अ॒प्ऽसु । त्रीणि॑ । अ॒न्तरिति॑ । स॒मु॒द्रे ।
उ॒तऽइ॑व । मे॒ । वरु॑णः । छ॒न्त्सि॒ । अ॒र्व॒न् । यत्र॑ । ते॒ । आ॒हुः । प॒र॒मम् । ज॒नित्र॑म् ॥

सायणभाष्यम्

पूर्वंदिवित्रीणिबंधनानीत्युक्तं इदानीं स्थानत्रयेष्वपित्रीणिबंधनानीत्याह—हेअर्वन् तेतव दिवि बंधनानित्रीणिआहुः तानिपूर्वमुक्तानि अप्सुअबुपजीवितत्वाद्भूलोकोप्यप् शब्देनाभिधीयते पृथि- व्यांत्रीणिबंधनान्याहुः अन्नंस्थानंबीजमितित्रीणि तथा समुद्रेअन्तः समुद्रमध्ये समुद्रवणादपामपा- दानात्समुद्रमंतरिक्षं तस्मिन् त्रीणि बृष्ट्युत्पत्तिनिमित्तानि मेघोविद्युत्स्तनितमिति उतेव इवशब्द- श्चार्थे अपिच हेअर्वन् अश्व वरुणः पापस्यवारकः फलस्यावर्जयितावा त्वंमेमह्यं छन्त्सि कथयसि किंकथयसीतिचेदुच्यते तेतव परमंजनित्रं निरतिशयं जन्म जनेरौणादिकइत्रप्रत्ययः यत्रयेषुत्रिषूक्ते- षूस्थानेष्वाहुः कथयन्ति यद्वा यत्रयस्मिन्नादित्येपरमंजनित्रमाहुः सूरादश्वंवसवोनिरतष्टेत्युक्तत्वात् तादृशंप्रशस्यं जन्म यज्ञसाधनभावेनकथयसीत्यर्थः ॥ ४ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११