मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६३, ऋक् ७

संहिता

अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः ।
य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ळादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ॥

पदपाठः

अत्र॑ । ते॒ । रू॒पम् । उ॒त्ऽत॒मम् । अ॒प॒श्य॒म् । जिगी॑षमाणम् । इ॒षः । आ । प॒दे । गोः ।
य॒दा । ते॒ । मर्तः॑ । अनु॑ । भोग॑म् । आन॑ट् । आत् । इत् । ग्रसि॑ष्ठः । ओष॑धीः । अ॒जी॒ग॒रिति॑ ॥

सायणभाष्यम्

एवंगमनानंतरं हेअश्व तेतवोत्तमं उक्तरूपेणोत्कृष्टतमंरूपं अत्रास्मिन्यागदेशे अपश्यंपश्यामि की- दृशंगोःभूम्याःपदेस्थानेदेवस्थाने देवयजनप्रदेशेआजिधावनस्थानेवा इषः कर्मणिषष्ठी इषंइष्यमाण- मन्नं अन्नानिवा आसर्वतोजिगीषमाणंगंतुमिच्छन्तं हेअश्व तेतवयदामर्तोमनुष्योभोगंभोक्तंव्यमन्नंअ- न्वानट् नशतिर्गतिकर्मा अनुक्रमेणसमीपंगमयति आदित् अनंतरंतदानीमेव तदनुग्रहात् विलंबमकृ- त्वाग्रसिष्ठः महातृष्णएव ग्रसितृतमोभक्षयितृतमः सन् ओषधीरन्नान्यजीगः गिरसिभक्षयसि महानु- भावोपित्वंलौकिकाश्ववत्तुच्छेनपुरुषेणदीयमानंस्वल्पंभक्षंअनुग्रहात् स्वीकरोषीत्यर्थः ॥ ७ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२