मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६३, ऋक् ९

संहिता

हिर॑ण्यशृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् ।
दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्यो अर्व॑न्तं प्रथ॒मो अ॒ध्यति॑ष्ठत् ॥

पदपाठः

हिर॑ण्यऽशृ॒ङ्गः । अयः॑ । अ॒स्य॒ । पादाः॑ । मनः॑ऽजवाः । अव॑रः । इन्द्रः॑ । आ॒सी॒त् ।
दे॒वाः । इत् । अ॒स्य॒ । ह॒विः॒ऽअद्य॑म् । आ॒य॒न् । यः । अर्व॑न्तम् । प्र॒थ॒मः । अ॒धि॒ऽअति॑ष्ठत् ॥

सायणभाष्यम्

अयमश्वोहिरण्यश्रृंगः हितरमणीयश्रृंगउन्नतशिरस्कः हृदयरमणश्रृंगस्थानीयशिरोरुहोवा अस्य पादा अयः अयोमयाः अयःपिंडसदृशाइत्यर्थः तथामनोजवाः मनोवेगाः अथवैतदिंद्रविशेषणं ईदृ- शस्याश्वस्यसामर्थ्यं प्रतिमनोवेगः इन्द्रोप्यवरोनिक्रुष्टआसीत् किंच अस्याश्वस्य हविरद्यं हविषः अदनं भक्षणं स्वार्थिकोयत् अदनयोग्यं हविर्वाअपेक्ष्य देवाः इत् सर्वेपिदेवाः आयन् प्राप्ताः यइन्द्रः अर्वन्तं प्रथमः प्रथमभावीसन् अध्यतिष्ठत् अधिष्ठितवान् सहविष्ट्वेनस्वकीयत्वेनवा श्रितवानित्यर्थः इंद्रए- णंप्रथमोअध्यतिष्ठदितिह्युक्तम् ॥ ९ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२