मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६३, ऋक् १२

संहिता

उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः ।
अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः ॥

पदपाठः

उप॑ । प्र । अ॒गा॒त् । शस॑नम् । वा॒जी । अर्वा॑ । दे॒व॒द्रीचा॑ । मन॑सा । दीध्या॑नः ।
अ॒जः । पु॒रः । नी॒य॒ते॒ । नाभिः॑ । अ॒स्य॒ । अनु॑ । प॒श्चात् । क॒वयः॑ । य॒न्ति॒ । रे॒भाः ॥

सायणभाष्यम्

अयमर्वा अरणकुशलोवाजी अश्वः शसनं विशसनस्थानं उपप्रागात् उपप्रैति उपगच्छति किंकुर्वन् देवद्रीचामनसा देवान् गच्छतामनसादीध्यानोध्यांयन् कदादेवानस्मदवयवे नार्चामि देवत्वंप्राप्नोमी- तिवामनसिध्यायन् किंचास्यपुरः पुरस्तान्नाभिर्नहनंबंधुभूतइत्यर्थः यद्वास्यबंधनस्थानीयः अविमुक्- तत्वात् एवंभूतोऽजः पुरोनीयते पुरतःप्राप्यते अनु अनुसृत्यपश्चात् अनंतरं अत्रयद्यप्युभयोः पर्यवसि- तोर्थएकएव तथाप्यजाश्वोभयानंतर्यत्वप्रकटनायपदद्वयं यद्वा अन्वितिक्रिययासंबध्यते कवयः अनू- चानाः रेभाः स्तोतारः ऋत्विजोयन्ति गच्छन्ति येवाअनूचानास्तेकवयइतिश्रुतेः । यद्वा कवयइति- मेधाविनाम कविर्मनीषीतितन्नामसुपठितत्वात् रेभइतिस्तोतृनाम रेभः जरितेतितत्रपाठात् ॥ १२ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३