मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् ३

संहिता

इ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच॑क्रं स॒प्त व॑ह॒न्त्यश्वा॑ः ।
स॒प्त स्वसा॑रो अ॒भि सं न॑वन्ते॒ यत्र॒ गवां॒ निहि॑ता स॒प्त नाम॑ ॥

पदपाठः

इ॒मम् । रथ॑म् । अधि॑ । ये । स॒प्त । त॒स्थुः । स॒प्तऽच॑क्रम् । स॒प्त । व॒ह॒न्ति॒ । अश्वाः॑ ।
स॒प्त । स्वसा॑रः । अ॒भि । सम् । न॒व॒न्ते॒ । यत्र॑ । गवा॑म् । निऽहि॑ता । स॒प्त । नाम॑ ॥

सायणभाष्यम्

इममुक्तस्वरूपमादित्यं मण्डलाख्यंसंवत्सराख्यंवा रथंयेसप्तरश्मयोऽधितस्थुरधिष्ठिताः संवत्स- रपक्षे अयनऋतुमासपक्षदिवसरात्रिमुहूर्ताख्याः सप्तावयवाअधितिष्ठन्ति कीदृशंरथं सप्तचक्रं चक- नाच्चरणात् क्रमणाद्वाचक्राणिरश्मयः तेसप्तयस्यरथस्य तादृशमुभयविधंरथ पूर्वोक्ताअधिष्ठिताः अश्वाव्यापनशीलाः सप्तवहन्ति निर्वहन्तिचतादृशंरथंसप्तस्वसारः स्वयंसरणाः स्वरादित्यस्तेनसा- रिताः परस्परंस्वसृभूतावा सप्तसंख्याकारश्मयऋतवश्च अभिसंनवन्ते आभिमुख्येनसंगच्छन्ते असा- धारणाः परस्परविलक्षणकार्याः षळृतवः सर्वसाधारणएकइति सप्तत्वम् यद्वा उक्तरूपामासद्वयात्म- काः षट् त्रयोदशमासात्मकः सप्तमइतिसप्तत्वं कीदृशोरथइतितदुच्यतेयत्रयस्मिन्रथे उभयविधेग- वांवाचां स्तुतिरूपाणां सप्त सप्तविधानिनाम नमनानि सप्तस्वररूपाणिनिहिता निहितानि सप्तस्व- रोपेतैः सामभिः स्तुत्यंरथमित्यर्थः यद्वा गवांउदकानां सप्त सर्पणस्वभावानि नाम नमनानि यत्र यासुस्वसृषुनिहितानि ताः स्वसारः परस्परस्वसृभूतादेवनद्यः अभिसंनवन्ते ॥ ३ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४