मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् ५

संहिता

पाकः॑ पृच्छामि॒ मन॒सावि॑जानन्दे॒वाना॑मे॒ना निहि॑ता प॒दानि॑ ।
व॒त्से ब॒ष्कयेऽधि॑ स॒प्त तन्तू॒न्वि त॑त्निरे क॒वय॒ ओत॒वा उ॑ ॥

पदपाठः

पाकः॑ । पृ॒च्छा॒मि॒ । मन॑सा । अवि॑ऽजानन् । दे॒वाना॑म् । ए॒ना । निऽहि॑ता । प॒दानि॑ ।
व॒त्से । ब॒ष्कये॑ । अधि॑ । स॒प्त । तन्तू॑न् । वि । त॒त्नि॒रे॒ । क॒वयः॑ । ओत॒वै । ऊं॒ इति॑ ॥

सायणभाष्यम्

पाकः पक्तव्योपक्वमतिरहं मनसा संस्कृतेन अविजानन् अतिगहनंतत्त्वं विशेषेणज्ञातुमशक्रुवन् पृच्छामि प्रश्नंकरोमि अज्ञानेकारणमाह—एना एनानि पदानिसंदेहास्पदानि तत्त्वानि देवानांनिहि- ता निहितानि तानिदेवानामपिगूढानीत्यर्थः यद्वा देवानांपदानि तत्त्वानि निधिवद्गोपयित्वा स्था- पितानि अतः पृच्छामि तत्त्वज्ञानोपयोगायेतिशेषः तानिकानीत्युच्यते—वस्ते सर्वस्यनिवासभूते बष्कये बटितिसत्यनाम तत्कषतीतिबष्कयआदित्यः यद्वा बष्कयोनामैकहायनोवत्सः पुनरपिवत्स- शब्दस्य प्रुथङ्निर्देशात् बष्कयशब्देनतत्कालमात्रंलक्ष्यते तस्मिन्नादित्ये अधिअधिकं सप्तनन्तून् तायमानान्सप्तसोमसंस्थान् कवयोमेधाविनोयजमानाओतवै जगद्रूपतिर्यक्तन्तून् वेतुं वितत्निरे वित- न्वन्ति यद्वा सप्ततन्तवः सप्तच्छन्दांसि तानिवितन्वन्ति किमर्थं ओतवै सप्तसोमसंस्थारूपतिर्यक्तन्तु- सन्तानाय यज्ञनिर्माणायेत्यर्थः यज्ञानांस्थितेःसूर्याधीनत्वादितिभावः ईदृशंतत्त्वंप्रुच्छामीत्यर्थः ॥ ५ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४