मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् ७

संहिता

इ॒ह ब्र॑वीतु॒ य ई॑म॒ङ्ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः ।
शी॒र्ष्णः क्षी॒रं दु॑ह्रते॒ गावो॑ अस्य व॒व्रिं वसा॑ना उद॒कं प॒दापु॑ः ॥

पदपाठः

इ॒ह । ब्र॒वी॒तु॒ । यः । ई॒म् । अ॒ङ्ग । वेद॑ । अ॒स्य । वा॒मस्य॑ । निऽहि॑तम् । प॒दम् । वेरिति॒ वेः ।
शी॒र्ष्णः । क्षी॒रम् । दु॒ह्र॒ते॒ । गावः॑ । अ॒स्य॒ । व॒व्रिम् । वसा॑नाः । उ॒द॒कम् । प॒दा । अ॒पुः॒ ॥

सायणभाष्यम्

इहेदानीं ईमेतद्वक्ष्यमाणंतत्त्वं अंगक्षिप्रंअविचारेण ब्रवीतु कः योवेद सः कीदृशंतत् अस्यपुरतोदृ- श्यमानस्य वामस्यवननीयस्य वेर्गन्तुरादित्यस्यपदं सर्वैर्गन्तव्यंस्वरूपंनिहितंगृढंवर्तते किंचास्यादि- त्यस्यशीर्ष्णःशिरोवदुन्नतस्यसर्वेषामुत्कृष्टस्यवागावः केचनवर्षकालीनारश्मयःक्षीरमुदकंदुह्रते क्षर- न्ति वव्रिंरूपनामैतत् रूपंवसानाः आच्छादयन्तः अतिविस्तरेणतेजसातपन्तः केचनास्यगावोरश्मयः उदकंस्वसृष्टंपदासृष्टेनैवमार्गेण अपुः पिबन्ति भूमिंनिरुदकांकुर्वन्तीत्यर्थः तस्यस्वरूपंब्रवीत्वित्यन्वयः ॥ ७ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५