मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् ८

संहिता

मा॒ता पि॒तर॑मृ॒त आ ब॑भाज धी॒त्यग्रे॒ मन॑सा॒ सं हि ज॒ग्मे ।
सा बी॑भ॒त्सुर्गर्भ॑रसा॒ निवि॑द्धा॒ नम॑स्वन्त॒ इदु॑पवा॒कमी॑युः ॥

पदपाठः

मा॒ता । पि॒तर॑म् । ऋ॒ते । आ । ब॒भा॒ज॒ । धी॒ती । अग्रे॑ । मन॑सा । सम् । हि । ज॒ग्मे ।
सा । बी॒भ॒त्सुः । गर्भ॑ऽरसा । निऽवि॑द्धा । नम॑स्वन्तः । इत् । उ॒प॒ऽवा॒कम् । ई॒युः॒ ॥

सायणभाष्यम्

मातासर्वस्यनिर्मात्रीप्रुथिवी पितरंपालकंद्युलोकंतस्थंद्युलोकस्थमादित्यमित्यर्थः तमावभाजआ- भजते किमर्थंऋते उदकेयज्ञेवानिमित्तभूतेसति केनद्वारेण धीती धीत्यकर्मणायागादिरूपेणस्वकीये- नाज्यसोमादिहविषातर्पयतीत्यर्थः अग्रे ततःपूर्वं पिताचमनसाअस्यामभीप्रायवता चेतसासंजग्मेहि संश्लिष्टोवर्ततेखलु वृष्टिमकरोदित्यर्थः अनन्तरंसामाताबीभत्सुः गर्भबन्धनेच्छावती गर्भरसा गर्भरसे- नगर्भोत्पत्तिनिमित्तेनरसेननिविद्धानितरांविद्धासीत् यद्वा गर्भेरसः ओषध्याद्युत्पादनसमर्थंउदकंय- स्याः सा तादृशी उदकेनात्यन्तंक्लिन्ना निविद्धाकृषीवलैर्हलमुखेननितरांविदरिताभवति बीजावा- पार्थं अत्रायंसमाधिर्याकाचनयोषिदपत्यार्थंस्वपतिंयुवानंयौति सचतस्यामनुरागयुक्तःसंगतोभवति साचान्तर्वत्नीसतीपुत्रान् जनयतीति तद्वदत्रापि अनन्तरंनमस्वन्तइत् भाविघ्रीहिप्रियंग्वाद्यन्नवन्त- एव उपवाकंउपेत्यवचनं परस्परंसम्यगभिधृद्धानि सस्यानीतिवचनमीयुः प्राप्नुवन्ति यद्वा हविर्ल- क्षणान्नवन्तउपेत्यवचनं प्रैषादिरूपधीयुः वृष्ठौसत्यांसस्यादिद्वारायागमयुतिष्ठेयुरित्यर्थः ॥ ८ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५