मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् १०

संहिता

ति॒स्रो मा॒तॄस्त्रीन्पि॒तॄन्बिभ्र॒देक॑ ऊ॒र्ध्वस्त॑स्थौ॒ नेमव॑ ग्लापयन्ति ।
म॒न्त्रय॑न्ते दि॒वो अ॒मुष्य॑ पृ॒ष्ठे वि॑श्व॒विदं॒ वाच॒मवि॑श्वमिन्वाम् ॥

पदपाठः

ति॒स्रः । मा॒तॄः । त्रीन् । पि॒तॄन् । बिभ्र॑त् । एकः॑ । ऊ॒र्ध्वः । त॒स्थौ॒ । न । ई॒म् । अव॑ । ग्ल॒प॒य॒न्ति॒ ।
म॒न्त्रय॑न्ते । दि॒वः । अ॒मुष्य॑ । पृ॒ष्ठे । वि॒श्व॒ऽविद॑म् । वाच॑म् । अवि॑श्वऽमिन्वाम् ॥

सायणभाष्यम्

एकः प्रधानभूतः असहायोवापुत्रस्थानीयआदीत्यः संवत्सराख्यः कालोवा तिस्रोमातॄः सस्यवृ- ष्ठ्याद्युत्पदयित्रीः क्षित्यादिलोकत्रयानित्यर्थः तथात्रीन् पितॄन् जगतांपालयितॄन् लोकत्रयाभिमा- निनोऽग्निवायुसूर्याख्यान् बिभ्रत्सन् ऊर्ध्वस्तस्थौ उन्नतः अत्यन्तदीर्घस्तिष्ठति भूतभविष्यदाद्यात्मना सूर्यपक्षेसर्वेभ्यउन्नतः ईमेनं नावग्लापयन्ति ग्लानिंनैवकुर्वन्ति नहिकालआदित्योवान्येनपराभूयते दिवः पृष्ठेद्युलोकस्योपरिअन्तरिक्षेमन्त्रयन्ते गुप्तंपरस्परंभाषन्ते देवाः किंविश्वविदं विश्ववेदनसमर्थां- विश्वैर्वेदनीयांवा अविश्वमिन्वां असर्वव्यापिनींवाचं गर्जितलक्षणां अमुष्य आदित्यसंबन्धिनींमन्त्रय- न्तइत्यर्थः ॥ १० ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५