मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् ११

संहिता

द्वाद॑शारं न॒हि तज्जरा॑य॒ वर्व॑र्ति च॒क्रं परि॒ द्यामृ॒तस्य॑ ।
आ पु॒त्रा अ॑ग्ने मिथु॒नासो॒ अत्र॑ स॒प्त श॒तानि॑ विंश॒तिश्च॑ तस्थुः ॥

पदपाठः

द्वाद॑शऽअरम् । न॒हि । तत् । जरा॑य । वर्व॑र्ति । च॒क्रम् । परि॑ । द्याम् । ऋ॒तस्य॑ ।
आ । पु॒त्राः । अ॒ग्ने॒ । मि॒थु॒नासः॑ । अत्र॑ । स॒प्त । श॒तानि॑ । विं॒श॒तिः । च॒ । त॒स्थुः॒ ॥

सायणभाष्यम्

ऋतस्योदकस्य सत्यात्मकस्यवा आदित्यस्यचक्रं पुनः पुनः क्रमणशीलं मण्डलाख्यं रथचक्रंवा व- र्वर्ति पुनःपुनर्वर्तते संचरति कुत्र द्यांपरि द्युलोकस्यांतरिक्षस्यपरितः कीदृशंतत् द्वादशारं द्वादशसं- ख्याकमासात्मकैर्मेषादिराश्यात्मकैर्वा अरैः रथाङ्गावयवैर्युक्तं तच्चक्रं नहिजराय नैवखलुजरायैभव- ति हेअग्ने सर्वदागमनयुक्तादित्य यद्वा अग्नेरेवस्थानत्रये तत्तदात्मनावर्तमानत्वादसावप्यग्निरित्युच्यते अत्रास्मिन्त्वदीयेचक्रे मिथुनासः स्त्रीपुंसरूपेण परस्परंमिथुनीभूताः सप्तशतानिविंशतिश्च विशत्युत्त- रसप्तशतसंख्याकाःपुत्राः पुत्रवदुत्पद्यमानाः प्राणिनांदुः—खान्त्रारोवाअहोरात्ररूपास्तस्थुः तिष्ठन्ति- निष्पद्यन्ते षष्ट्यधिकशतत्रयसंख्याकान्यहानि तावत्यएवरात्रयइत्येवंतद्विभागः । सप्तचवैशतानिविं- शतिश्चसंवत्सरस्याहोरात्राः सएषोहःसमानइत्यारण्यकम् ॥ ११ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६