मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् १४

संहिता

सने॑मि च॒क्रम॒जरं॒ वि वा॑वृत उत्ता॒नायां॒ दश॑ यु॒क्ता व॑हन्ति ।
सूर्य॑स्य॒ चक्षू॒ रज॑सै॒त्यावृ॑तं॒ तस्मि॒न्नार्पि॑ता॒ भुव॑नानि॒ विश्वा॑ ॥

पदपाठः

सऽने॑मि । च॒क्रम् । अ॒जर॑म् । वि । व॒वृ॒ते॒ । उ॒त्ता॒नाया॑म् । दश॑ । यु॒क्ताः । व॒ह॒न्ति॒ ।
सूर्य॑स्य । चक्षुः॑ । रज॑सा । ए॒ति॒ । आऽवृ॑तम् । तस्मि॑न् । आर्पि॑ता । भुव॑नानि । विश्वा॑ ॥

सायणभाष्यम्

सनेमि समाननेमि एकप्रकारबहिर्वलयं अक्षीणनेमिचक्रं संवत्सराख्यंअजरं सदातनमपि जरार- हितं विववृते पुनःपुन्र्विशेषेणवर्तते उत्तानायांऊर्ध्वतनायांईषायांउपरिविस्तृतभूम्यांवा दशइन्द्रादयः पञ्चलोकपालाः निषादपञ्चमाश्चत्वारोब्राह्मणादयोवर्णाः मिलित्वादशसंख्याकाः युक्ताः स्वस्वव्या- पारयुक्तावहन्ति निर्वहन्ति कृत्स्नं जगन्निर्वहन्तीत्यर्थः तन्निर्वाहार्थत्वात्कालस्य किञ्च सूर्यस्यादित्य- स्यचक्षुः ख्यातस्वभावंसर्वस्यचक्षुः स्थानीयं वा मण्डलं चक्षुःख्यातेर्वाचष्टेर्वेतिनिरुक्तम् । रजसावृ- ष्ट्युदकेन आवृतं व्याप्तं एतिगच्छति उदकंरजउच्यतेइतियास्कः । तादृशे मण्डले विश्वाभुवनानि स- र्वाणिभूतजातानिअर्पिता अर्पितानि तदधीनत्वात्तेषाम् ॥ १४ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६