मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् १५

संहिता

सा॒कं॒जानां॑ स॒प्तथ॑माहुरेक॒जं षळिद्य॒मा ऋष॑यो देव॒जा इति॑ ।
तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ॥

पदपाठः

सा॒क॒म्ऽजाना॑म् । स॒प्तथ॑म् । आ॒हुः॒ । ए॒क॒ऽजम् । षट् । इत् । य॒माः । ऋष॑यः । दे॒व॒ऽजाः । इति॑ ।
तेषा॑म् । इ॒ष्टानि॑ । विऽहि॑तानि । धा॒म॒ऽशः । स्था॒त्रे । रे॒ज॒न्ते॒ । विऽकृ॑तानि । रू॒प॒ऽशः ॥

सायणभाष्यम्

साकंजानांएकस्मादादित्यात्सहोत्पन्नानांसप्तानामृतूनांमध्ये सप्तथं सप्तममृतुं थट्छन्दसीतिथट् एकजंएकेनोत्पन्नमाहुः कालतत्त्वविदः चैत्रादीनांद्वादशानांमासानांद्वयद्वयमेलनेनवसंताद्याःषडृतवो- भवंति अधिकमासेनैकउत्पद्यतेसप्तमर्तुः नचतदृशोमासएवनास्तीतिमन्तव्यं अस्तित्रयोदशोमासइ- त्याहुरितिश्रुतेः । तदेवोच्यते षळिद्यमाः इच्छब्दएवकारार्थः षडेवऋतवोमासद्वयरूपाः ऋषयोग- न्तारः तेच देवजाः देवादादित्याज्जाताः इत्येवमाहुः सप्तमाधारस्यत्रयोदशस्यमासस्य देवाभावः निःसूर्योधिकमासः मण्डलंतपतेरवेरित्यादिस्मृतेः । तस्मात् षडेवदेवजाः अदेवजएकः तेषामृतूनां- स्वरूपाणि इष्टानि सर्वलोकाभिमतानि धामशः तत्तत्स्थानेविहितानि पृथक्पृथक् स्थापितानि रूप- शः रूपभेदेन विकृतानि वोवोधाकृतियुक्तानि सचरूपभेदस्तैत्तिरीयैराम्नातः—सरसमहवसन्तायप्रा- यच्छद्यवंग्रीष्मायेत्यादि । स्थात्रे अधिष्ठाए तदर्थायरेजन्तेचलन्ति जगद्भ्यवहारायपुनःपुनरावर्तन्त- इत्यर्थः ॥ १५ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६