मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् १९

संहिता

ये अ॒र्वाञ्च॒स्ताँ उ॒ परा॑च आहु॒र्ये परा॑ञ्च॒स्ताँ उ॑ अ॒र्वाच॑ आहुः ।
इन्द्र॑श्च॒ या च॒क्रथु॑ः सोम॒ तानि॑ धु॒रा न यु॒क्ता रज॑सो वहन्ति ॥

पदपाठः

ये । अ॒र्वाञ्चः॑ । तान् । ऊं॒ इति॑ । परा॑चः । आ॒हुः॒ । ये । परा॑ञ्चः । तान् । ऊं॒ इति॑ । अ॒र्वाचः॑ । आ॒हुः॒ ।
इन्द्रः॑ । च॒ । या । च॒क्रथुः॑ । सो॒म॒ । तानि॑ । धु॒रा । न । यु॒क्ताः । रज॑सः । व॒ह॒न्ति॒ ॥

सायणभाष्यम्

येसूर्यसोमयोश्चक्रे वर्तमानारश्मयोग्रहादयश्च तत्परिभ्रमणवशेनअर्वाञ्चः अर्वागंचनाः अधोमुखाः सन्ति ताँउ तानेवपरचआहुः पुराङ्मुखांचनानूर्ध्वानाहुःकालविदः तथा प्रथमं येपराञ्चः परागञ्चनाः ताँउ तानेवअर्वाचआहुः हेसोम त्वंइन्द्रः परमेश्वरः इरांभूमिंवृष्ट्याधारकआदित्यः यद्वा द्वादशादि- त्यानांमध्येइन्द्रोप्येकः विवस्वदिन्द्रयुताइत्युक्तत्वादयमपीन्द्रः सच यु वां या यानिमण्डलपरिभ्रम- णानिचक्रथुः क्रुतवन्तौ तानिरजसोरंजनात्मकस्यलोकस्य कर्मणिषष्ठी लोकंवहन्ति निर्वहन्ति तत्र- दृष्टान्तः—धुरान शकटादौधुरियुक्ताः संबद्धाअश्वादयोयथाधुरंवहन्तितद्वत् यद्वा एतत्पूर्वार्धेदृष्टा- न्तितं धुरायुक्ताः धुरिस्थितंचक्रमपिधुरशब्देनोच्यते तत्रयुक्ताः समर्पिताः पुरुषाः तत्परिभ्रमणव- शेनार्वाञ्चः पराञ्चोभवन्ति पराञ्चोप्यर्वाञ्चोभवन्तितद्वत् ॥ १९ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७