मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् २०

संहिता

द्वा सु॑प॒र्णा स॒युजा॒ सखा॑या समा॒नं वृ॒क्षं परि॑ षस्वजाते ।
तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भि चा॑कशीति ॥

पदपाठः

द्वा । सु॒ऽप॒र्णा । स॒ऽयुजा॑ । सखा॑या । स॒मा॒नम् । वृ॒क्षम् । परि॑ । स॒स्व॒जा॒ते॒ इति॑ ।
तयोः॑ । अ॒न्यः । पिप्प॑लम् । स्वा॒दु । अत्ति॑ । अन॑श्नन् । अ॒न्यः । अ॒भि । चा॒क॒शी॒ति॒ ॥

सायणभाष्यम्

अत्रलौकिकपक्षद्वयदृष्टान्तेनजीवपरमात्मानौस्तूयेते यथालोकेद्वौसुपर्णौ सुपतनौशोभनगमनौ सयुजासमानयोगौ सखायौ समानख्यानौ समानं वृक्षं परिषस्वजाते एकमेववृक्षंपरिषस्वजाते आश्र- यतः तयोरन्यः एकः पिप्पलंपक्वंफलं स्वाद्वत्ति स्वादुतरमत्ति अपरःअनश्नन् अभिचाकशीतिअभिप- श्यति तद्वत् द्वौसुपर्णस्थानीयौ क्षेत्रज्ञपरमात्मानौ सयुजासमानयोगौ योगानोमसंबन्धः सचतादा- त्म्यलक्षणः सएवात्मा परमात्मनःस्वरूपंयस्यजीवात्मनः एवमेकस्वरूपावित्यर्थः अनेनभास्करम- तानुसारिणोऽतिरेकनाम्नोजीवात्मा परमात्मनोनान्यः सचपरमात्मा जीवादन्योजीवाश्रयणादिति- मतंनिरस्तंभवति । ननु संबन्धोद्विष्ठः सचपक्षिणोरेवभेदमपेक्षते अतः कथमैकात्म्यमिति न औपा- धिकभेदंवास्तवाभेदंचापेक्ष्यप्रवृत्तः अतएव सखायौ समानख्यानौ नान्यख्यानौ नन्वेकस्य यादृशं- ख्यानं तादृशमेवान्यस्येतिव्युत्पत्त्याभेदःस्फुटंप्रतिभाति कथंतादात्म्यमुच्यतइतिनवक्तव्यं नात्रप- रस्परंदृष्टान्तदार्ष्टान्तिकभावः अपितुयस्ययादृशंख्यानं स्फुरणं परमात्मनः तदेवख्यानमितरस्यापि जीवात्मनइतिसखायावित्युच्यते एकरूपप्रकाशावित्यर्थः अतउपपन्नमैकात्म्यं अनेनवास्तवभेदोपि- निरस्तः समानंवृक्षंपरिषस्वजातेइत्यत्र यथाश्रयान्तराभावादुभयोरेकाश्रयत्वमभ्युपगन्तव्यम् तद्व- त्सयुजासखायावित्युभयत्राप्येकयोगख्याने आश्रयणीये वृश्च्यतइतिवृक्षोदेहः सचोभयोःसमानएकएव जीवस्यभोगार्थत्वात् परमात्मनासृष्टैर्महाभूतैरारब्धत्वात्तस्योपलब्धिस्थानत्वाच्चोभयोरपिसमानः तादृशं समानं वृक्षंपरिषस्वजाते परिष्वजतः आश्रयतः नचजीवस्यवस्तुतईश्वरत्वेकथंजीवबुद्ध्यासं- सारशोकावितिवाच्यं तयोर्मोहकृतत्वात् तथाचाथर्वणिकाअनुमन्त्रमाम्नाय अस्यसंदेहनिवर्तकमुत्त- रंमन्त्रमेवमामनन्ति—समानेवृक्षेपुरुषोनिमग्नोअनीशयाशोचतिमुह्यमानः । जुष्टंयदापश्यत्यन्यमी- शमस्यमहिमानमितिवीतशोकइति । अस्यायमर्थः—एकएवशरीरेपूर्णःपुरुषः परमात्मा निमग्नोनि- गूढःसन् स्वयमपीश्वरोप्यनीशत्वबुद्भ्यामुह्यमानोमूढःसन् शोचति संसारेअहंकर्ता सुखीदुःखीतिजन- नमरणेनुभवति यदातुजुष्टं नित्यतृप्तं अन्यं संसारशोकातीतंईशंपरमेश्वरंपश्यति स्वानन्यतयासाक्षा- त्करोति तदावीतशोकः देहाद्भ्यतिरिक्तः स्वस्वरूपसाक्षात्कारेण गततापत्रयः सन् अस्यमहिमान- मिति निरस्तसमस्तौपाधिकस्य परमेश्वरस्यमहिमानं सार्वात्म्यसर्वज्ञत्वादिमहिमानमिति एति प्राप्नोति नचतद्भावान्यत्रतन्महिमाप्राप्यते अतस्तद्रूपोभवतीत्यर्थः तस्माद्वस्तुतएकएव भेदस्तुमो- हकृतइतिफ्र्सिद्धम् । अनुभवदशायां लैकिकबुद्भ्याभेदमभ्युपेत्योच्यते तयोरन्योजीवात्मापिप्पलंकर्म- फलंस्वादुस्वादुभूतमत्तिभुंक्ते यस्य यदुपार्जितं तत्तस्यस्वादुभवति अन्यः परमात्माअनश्नन् आप्तकाम- त्वेनाभुंजानः स्पृहायाअभावात् आप्तकामस्यकास्पृहेतिस्मृतेः । तस्मादवास्तवभेदमुपजीव्यतयोरन्य- इत्युक्तम् वस्तुतस्त्वनीशयाशोचतिमुह्यमानइत्युक्तत्वादभेदएव तादृशःपरमात्मा अभिचाकशीति स्वात्मन्यध्यस्तंजगत्साक्षित्वेनेक्षतेअत्रद्वौद्वौप्रतिष्ठितौ सुकृतौ धर्मकर्तारावित्यादिनिरुक्तेगतं अस्यम- न्त्रस्यव्याख्यानमनुसंधेयम् ॥ २० ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७