मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् २८

संहिता

गौर॑मीमे॒दनु॑ व॒त्सं मि॒षन्तं॑ मू॒र्धानं॒ हिङ्ङ॑कृणो॒न्मात॒वा उ॑ ।
सृक्वा॑णं घ॒र्मम॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥

पदपाठः

गौः । अ॒मी॒मे॒त् । अनु॑ । व॒त्सम् । मि॒षन्त॑म् । मू॒र्धान॑म् । हिङ् । अ॒कृ॒णो॒त् । मात॒वै । ऊं॒ इति॑ ।
सृक्वा॑णम् । घ॒र्मम् । अ॒भि । वा॒व॒शा॒ना । मिमा॑ति । मा॒युम् । पय॑ते । पयः॑ऽभिः ॥

सायणभाष्यम्

गौर्धेनुः मिषन्तंनिमीलिताक्षंवत्समनुप्राप्यअमीमेत् शब्दंकरोति मीमयतिः शब्दकर्मा यद्वा उक्तं- वत्समनुआत्मानंप्रक्षिपति किञ्च तस्यवत्सस्यमूर्धानंमातवैमातुं निर्मातुंलेहनेनशोधयितुं उशब्दोवधा- रणे हिङ्ङकृणोत् हिंकारमकरोत् करोति किञ्च सृक्वाणंवत्सस्यशब्दवदनप्रान्तंफेनस्यस्रष्टारं घर्मंक्षी- रस्यक्षरणशीलं वत्संअभिअभिलक्ष्य वावशानाभृशंकामयमानामायुंशब्दंमिमाति निर्मातिकरोति तादृशीसतीपयोभिः प्रभूतैः क्षीरैः पयते प्यायते आप्यायनंकरोतिवत्सम् । अत्रापि मेघपरतयायोज- नीयं एवमाहूता मेघरूपा गौर्धेनुः मिषन्तं वृष्टिरूपक्षीराभावेन निमीलिताक्षलोकाख्यंपुत्रंअनुअनुसृ- त्यामीमेत् गर्जनशब्दंवर्षणचिह्नरूपं करोति मूर्धस्थानीयांभूमिं मातवाउ निर्मातुमेव सस्यादियुक्तां- कर्तुं हिङ्ङकृणोत् हिंकाररूपंशब्दमकरोत् प्रतिपादनभेदादपुनरुक्तिः किञ्च सृक्वाणंफलस्यस्रष्टारंघर्मं- दीप्तंपुत्रमभिवावशाना आभिमुख्येनकामयमाना पयोभिरुदकैः पयते प्यायते आप्यायनंकरोति ॥ २८ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९