मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् ३३

संहिता

द्यौर्मे॑ पि॒ता ज॑नि॒ता नाभि॒रत्र॒ बन्धु॑र्मे मा॒ता पृ॑थि॒वी म॒हीयम् ।
उ॒त्ता॒नयो॑श्च॒म्वो॒३॒॑र्योनि॑र॒न्तरत्रा॑ पि॒ता दु॑हि॒तुर्गर्भ॒माधा॑त् ॥

पदपाठः

द्यौः । मे॒ । पि॒ता । ज॒नि॒ता । नाभिः॑ । अत्र॑ । बन्धुः॑ । मे॒ । मा॒ता । पृ॒थि॒वी । म॒ही । इ॒यम् ।
उ॒त्ता॒नयोः॑ । च॒म्वोः॑ । योनिः॑ । अ॒न्तः । अत्र॑ । पि॒ता । दु॒हि॒तुः । गर्भ॑म् । आ । अ॒धा॒त् ॥

सायणभाष्यम्

दीर्घतमाब्रवीति मेममद्यौर्द्युलोकः पितपालकः नकेवलंपालकत्वमात्रं अपितुजनिताजनयिता उत्पादयित तत्रोपपत्तिमाह—नाभिरत्रनाभिभूतोभौमोरसोऽत्रतिष्ठतीतिशेषः ततश्चान्नंजायते अन्नाद्रेतः रेतसोमनुष्यइत्येवंपारंपर्येणजननसंबन्धिनोहेतोरसस्यात्रसद्भावात् अनेनैवाभिप्रायेणज- नितेत्युच्यते अतएवबन्धुः बन्धिका तथेयं मही महतीपृथिवीमेमाता मातृस्थानीयास्वोद्भूतौषध्या- दिनिर्मात्रीत्यर्थः किञ्च उत्तानयोः ऊर्ध्वतानयोः चम्वोः सर्वस्यअत्र्योर्भोगसाधनयोर्द्यावापृथिव्योर- न्तर्मध्ये योनिः सर्वभूतनिर्माणाश्रयमन्तरिक्षंवर्ततइतिशेषः अत्रास्मिन्नन्तरिक्षेपिता द्युलोकः अधि- ष्ठात्रधिष्ठानयोरभेदेनादित्योद्यौरुच्यते सस्वरश्मिभिः अथवाइन्द्रः पर्जन्योवादुहितुः दूरेनिहितायाः भूम्याः गर्भंसर्वोत्पादनसमर्थंवृष्ट्युदकलक्षणंआधात् सर्वतः करोति ॥ ३३ ॥ आश्वमेधिकेमध्यमेहनिब्रह्मोद्येहोत्रादयः प्रुच्छामित्वेत्यनयायजमानंपृच्छेयुः तथाचसूत्रितम्— एकैकशोयजमानंपृच्छन्ति पृच्छामित्वापरमन्तंपृथिव्याइति ।

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०